Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 99
________________ , पुनः उपकृतोऽस्मि । अतीव आनन्देन किञ्चिदपि वक्तुमहं न समर्थः । ससइ, 1 भोजनप्रबन्धं कुरु । ससइः शीघ्रं हि भोजनार्थं सर्वान् आह्वायामि । तावत् सर्वे कुर्वन्तु विश्रामम् । Nज्येष्ठभ्राता पुर्नु ! अहम् इच्छामि यत् त्वम् अस्माभिः सह स्वदेशमागच्छ । । पुनः भ्रातः वचनबद्धः खल्वहम् । तां विहाय अहं न आगच्छामि । रजककर्म त्यक्तुमपि अहं न समर्थः । ज्येष्ठभ्राता बाढम् । अद्य रात्रौ तव लग्नोत्सवनिमित्तं वयं सर्वे मिलित्वा आनन्दपूर्वकं मद्यपानं करिष्यामः । दृश्यम् (९) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) ज्येष्ठभ्राता पुगें ! अतीव प्रसन्ना वयम् । कुरु मद्यपानम् । पुनः अत्यधिकं पीतं मया । अधुना न शक्यम् । • सचिवः एकं सुरापात्रम् ! मम मानार्थम् । स्वीकारं कुरु । अहो अतीव समर्थः बार खलु भवान् । पुनः बाढम् एकं पात्रम् । नहि, नहि अधुना मम देहः शिथिलः भवति । ज्येष्ठभ्राता पुगें, अतीव आनन्देन यच्छामि । एकं सुरापात्रम् ! एकमेव ! पुनः यच्छ, अहो न पश्यामि किमपि ! अहो शुभरात्रिः ! शुभरात्रिः ! HW ज्यष्ठभ्राता मद्यपानप्रभावेण लुप्तसंज्ञः अयं जनः ! सचिव, त्वरया पुर्नुकुमारं !!! गृहीत्वा वयं सर्वे गच्छामः मन्ये सर्वं कृतं मया । सचिवः उष्ट्रचालकाः सर्वे प्रयाणार्थं तत्पराः । पुर्नुकुमारस्य भार्या तस्याः च सर्वे सम्बन्धिनः अपि निद्रां प्राप्ताः । भवान् अपि बहिरागच्छतु । ज्येष्ठभ्राता कुमारम् नीत्वा अद्य मध्यरात्रौ प्रस्थातुं हि अनुकूलं भवेत् । यदा स्वस्थः भविष्यति तदा आत्मानं स्वदेशे द्रक्ष्यति । दृश्यम् (१०) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) O ससइः कुत्र गताः सर्वे ? ज्येष्ठभ्राता अपि न दृश्यते ! परिवारजना अपि न . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126