Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ अक्षपादानुयायिनो हि नैयायिका उपमानं शाब्दं प्रत्यक्षमनुमानं चेति प्रमाणचतुष्टयं मन्यन्ते । प्राभाकरा (मीमांसकैकदेशिनः) हि तत् प्रमाणचतुष्टयमर्थापत्त्या सहेति पञ्च प्रमाणानि मन्यन्ते । भाडाः (मीमांसकैकदेशिनः) हि तत् प्रमाणपञ्चकमेवाऽभावेन सहेति षट् प्रमाणानि मन्यन्ते । (उत्तरमीमांसका[वेदान्तिनः]अप्येतान्येव षट् प्रमाणानि मन्यन्ते ।) जैनदार्शनिकास्तु द्वे एव प्रमाणानि स्वीकुर्वन्ते प्रत्यक्षं परोक्षं च । (द्वयोरप्येतयोश्चाऽन्यान्यपि प्रमाणानि यथायथमन्तर्भावयन्ति ।) एतावती भूमिकामुपस्थाप्याऽधुनाऽत्र उपमानप्रमाणस्य स्वरूपप्रामाण्य-फलान्याश्रित्य दार्शनिकानां ये मतभेदास्तान् निरूपयितुमुपक्रान्तम् । १. उपमानस्वरूपम् उपमानस्वरूपविषये दार्शनिकानां विभिन्नमतानीमानि - 1. वृद्धनैयायिकसम्मतमतिदेशवाक्यम् 2. उपवर्षादिमीमांसकानां वेदान्तिनां च सम्मते सादृश्य-सादृश्यज्ञाने 3. नव्यनैयायिकसम्मतं सादृश्यप्रत्यक्षम् 4. प्राचीनजैनसम्मते सादृश्य-वैसादृश्यज्ञाने 5. नव्यजैनसम्मतं सङ्कलनात्मकं सादृश्यज्ञानम् तत्र प्रथमं तावत् पश्यामः - 1. न्यायसूत्रकारेण ह्युपमानलक्षणमेवं कृतम् - "प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् (१.१.६) । अस्य सूत्रस्य व्याख्याने वृद्धनैयायिकस्योद्योतकरादीनां च मध्ये मतभेदोऽस्ति । वृद्धा ह्यतिदेशवाक्यमेवोपमानप्रमाणतया मन्यन्ते । जयन्तभट्टेन न्यायमञ्जर्यां वृद्धनैयायिकमतेनेदं सूत्रमेवं व्याख्यातम् - "अत्र वृद्धनैयायिकास्तावदेवमुप मानस्वरूपमाचक्षते - सञ्जा-सञ्जिसम्बन्धप्रतीतिफलं प्रसिद्धेतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम् । गवयार्थी हि नागरकोऽनवगतग वयस्वरूपस्तदभिज्ञमारण्यकं पृच्छति - कीदृग गवयः ? - इति । स तमाह - यादृशो गौस्तादृशो गवयः - इति । तदेतद् वाक्यमप्रसिद्धस्य प्रसिद्धन गवा सादृश्यमभिदधत् तद्द्वारकमप्रसिद्धस्य गवयसञ्जाभिधेयत्वं ज्ञापयतीति उपमानमुच्यते ।" (न्यायमञ्जरी पृ. १४१) ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126