Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 89
________________ जमशः । ससह-पुन्वोः प्रणयकथा डॉ. कान्तिभाई गोरः कुलपतिः कच्छ युनिवर्सिटी, विश्वविद्यालय, भूज भूमिका ससइ-पुन्वोः प्रणयकथा कच्छप्रदेशे सिन्धप्रदेशे च विख्याताऽस्ति । सिन्धप्रदेशस्य भंभोरनामके नगरे रजकदम्पती निवसतः स्म । कदाचिदेतौ दम्पती सिन्धुनधास्तीरे वस्त्राणि क्षालयन्तावास्ताम् । तदा हि नदीप्रवाहे प्रवहन्ती काचिद् मञ्जूषा तौ दृष्टवन्तौ । तां च ततो निष्कास्य यदा तावुद्घाटितवन्तौ तदा नवजाता बालिका काचिदन्तर्दृष्टा । निःसन्तानत्वात् तामेव पुत्रीं कृत्वा तस्या लालनं पालनं च तौ प्रेम्णा कृतवन्तौ । तस्या रूपमनुपममासीदतस्तस्याः 'ससइ' इति नाम तौ दत्तवन्तौ । रजकश्च स राज्ञः प्रीतिपात्रमासीत् । ससइरपि बुद्धिमत्यासीत् । भंभोरनगरेऽन्यस्थलेभ्यो यत्किमपि वस्तुजातं नीयमानमासीत् तदुपरि नगरशुल्कं ग्रहीतव्यमासीत् । तत्कार्यार्थं च बुद्धिमत्त्वाद् राजा ससई नियुक्तवानासीत् । __ अत्रान्तरे सिन्धप्रदेशस्य समीपवर्ती केचमकराण-प्रदेशो दुष्कालग्रस्तो र जातः । अतस्तत्रत्येन राज्ञा आरीजामेन मकराणप्रदेशस्य क्रय्यद्रव्याणि विक्रेतुं सिन्धप्रदेशाच्च धान्यं क्रेतुमुष्ट्राणामनेकशतं प्रेषितम् । नगरशुल्कं प्रदातुमागतो र राजपुत्रः ससई दृष्टवान् । उभावपि परस्परं मोहं प्राप्तवन्तौ । किन्तु 'रजकपुत्री एषा। .1. अनया सह विवाहो न कर्तव्यः' इति सहाऽऽगतेन सचिवेन वारितोऽपि राजपुत्रः ... पुनुः स्वनिर्णयान्न चलितः । अतः पुर्नु भंभोरनगरे एव विहाय सचिवेन प्रतिगन्तव्यमभवत् । ___ अत्र च ससय्या रजकपिता एवं पणमुक्तवान् यद्-यदि पुनुः ससय्या सह l विवाहोत्सुकस्तर्हि तेन रजकत्वमङ्गीकरणीयम् । पुनुरेतदप्यङ्गीकृतवान् । ससय्या | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126