Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ पुर्नुः दृश्यम् (३) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) सिन्धप्रदेशस्य अस्य नगरस्य अवर्णनीया शोभा मे मनो हरति । ईदृशी विशाला सरिता अपि पूर्वं मया न दृष्टा । मन्ये अस्य नगरस्य जना अपि सिन्धुनदीव प्रेमपूर्णाः सन्ति । सचिव ! व्यापारप्रारम्भे किमस्माकं ). प्रथमं कर्तव्यम् ? सचिवः पुर्नुकुमार ! विक्रयार्थमानीतपण्योपरि प्रवेशशुल्कं दातुं शुक्लाध्यक्षा समीपम् अहं गमिष्यामि । अहमपि भवता सह गच्छामि । किन्तु 'शुल्काध्यक्षा' श्रुत्वा .... आश्चर्यमनुभवामि । किं स्त्री अपि अस्मिन्नगरे शुल्काध्यक्षरूपेण कार्यं - करोति ? सचिवः आम् । श्रूयते ससइनामधेया काऽपि अतीव कुशला गुणसम्पन्ना , रजककन्या शुल्काध्यक्षपदे तस्वगुणप्रभावेण राज्ञः कृपया नियुक्ता । शुल्काध्यक्षस्य दुष्करं पुरुषकार्यं कर्तुं समर्थां तां द्रष्टुमहमत्यन्तम् उत्सुकः । म सचिवः तव औत्सुक्यं मे चिन्ताकारणं भवति । ..पुनः प्रहेलिकां रचयति भवान् । स्पष्टकथनमिच्छामि । सचिवः तां दृष्ट्वा तव औत्सुक्यभावः प्रणयभावे परिवर्तयिष्यते इति मे शङ्का । पुर्नुः अहो ! अतीव रसिकजनः खलु भवान् । दृश्यम् (४) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) कस्माद् देशात् भवान् आगतः ? किमानीतं विक्रयार्थं भवता ? (स्वगतम्) अहो रूपम् ! नेदं मानुषीरूपम् ! स्वर्गादागता अप्सरा संभवत्येषा ! नहि नहि अप्सरा ह्यत्र किमर्थमागच्छेत् । अप्सरस: डार आगमनस्य किमपि कारणं नास्ति । तत् का स्यात् सा ? अहो अस्याः स्वरमाधुर्यम् ! 聽聽聽聽聽聽聽聽聽聽 1 ससइः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126