Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ 1. ससइः (पुर्नु प्रति) भवन्तं पृच्छामि । किमर्थं भवानत्र सम्प्राप्तः ? यदि .1. शुल्कदानार्थं भवानत्र सम्प्राप्तः तर्हि पण्यपदार्थान् दर्शय । शृणोति - भवान् ? अहो किमपि न शृणोति अयं जनः । किं करोम्यधुना ? या 17 सचिवः पुर्नुकुमार ! ओ पुर्नुकुमार ! अरे ध्यानस्थयोगिन् ! नेदं स्थलं तपःस्थानं । न च त्वं संसारमुक्तो योगी। तदपि कं देवं स्मरसि त्वम् ? वा कामपि देवीम्.... देवी ! का देवी ? नहि नहि अत्रैवाऽहम् । सचिव ! दर्शयतु पण्यपदार्थान् शुल्कं च यच्छतु । ससइः (स्वगतम्) अहो पौरुषयुक्तः स्वरः । कामदेवसमः प्रभावकः अयं पुरुषः । न दृष्टः पूर्वं कोऽपि येन मम मनः एवम् आकृष्टम् ।। सचिवः अयि शुल्काधिकारिणि ! यच्छामि शुल्कद्रव्यम् । अहो सा अपि पार समाधिस्था । ओ देवि ! अहो किमपि न शृणोति सा ! ससइः क आक्रोशति ? मां वदति भवान् ? सचिवः नहि नहि आकाशभाषितम् ! ओ शुल्काधिकारिणि, शुल्कार्थं धनं गृहीत्वा प्रतीक्षमाणोऽहं वदामि । शून्यमनस्कभावेन स्थिता भवती एकं शब्दमपि न शृणोति ! " ससइः क्षम्यताम् ! चञ्चलस्य मे मनसः प्रभावेण इदमभवत् ! कस्माद् देशाद् । आगतः भवान् ? केचमकराणदेशाद् आगता वयम् । अहम्..... 1. सचिवः सा मां पृच्छति । अहं केचमकराणदेशाधिपतेः आरिजामस्य सचिवः। अयम् आरिजामस्य पुत्रः पुर्नुकुमारः । पुनः भवती अपि स्वपरिचयं दत्त्वा अस्मासु अनुग्रहं करिष्यति । ससइः अहं रजकपुत्री..... पुनः न मन्ये । स्वर्गाद् आगता काचिदप्सरा असि त्वम् । सचिवः पुर्नुकुमार ! अहं गच्छामि । सार्थवाहसमूहस्य भोजननिवासादिव्यवस्था कर्तुं मम गमनम् अनिवार्यमस्ति । अनुज्ञामिच्छामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126