Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
RAMMARRARIA
कथा शिष्यपरीक्षा
सा. धृतियशाश्री: एकस्य गुरोद्वौ शिष्यौ आस्ताम् । स गुरुस्ताभ्यां सदृशीं शिक्षामयच्छत् । एकदा गुरुणा चिन्तितम् - 'अनयोर्द्वयोर्मध्यात् कस्मै आचार्यपदं दीयेत?' तेन गुरुणा तयोर्द्वयोः परीक्षा कृता । एकदोद्यानमध्ये आम्रवृक्षसमीपे गुरुद्वी शिष्यौ नीत्वा ताभ्यां कथितवान् -
'एतस्मिन् वृक्षे के के गुणाः सन्ति इति कथ्यताम् ।'
प्रथमशिष्यः प्राह - 'एष वृक्षस्स्वस्वभावेन फलति फलं च यच्छति । अपरं कमपि गुणमहं न जानामि' इति ।
गुरुणा द्वितीयः शिष्यः पृष्टः । द्वितीयशिष्योऽपि प्राह- 'अस्य वृक्षस्य बहवः गुणाः सन्ति । स आतपं सहित्वाऽन्यस्मै छायां ददाति । तं प्रति यदि कोऽपि ग्रावाणमपि क्षिपेत् तस्मै अपि सः फलं यच्छति । तस्योपरि बहुफलानि भवन्ति तथापि सः नम्रीभवति । इत्यादयोऽनेके गुणाः सन्ति किन्तु सर्वानपि वक्तुं न शक्नोति' । शिष्यस्योत्तरं श्रुत्वा हृष्टो गुरुस्तमेवाऽऽचार्यपदाधिरूढं कृतवान् ।।
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126