SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ RAMMARRARIA कथा शिष्यपरीक्षा सा. धृतियशाश्री: एकस्य गुरोद्वौ शिष्यौ आस्ताम् । स गुरुस्ताभ्यां सदृशीं शिक्षामयच्छत् । एकदा गुरुणा चिन्तितम् - 'अनयोर्द्वयोर्मध्यात् कस्मै आचार्यपदं दीयेत?' तेन गुरुणा तयोर्द्वयोः परीक्षा कृता । एकदोद्यानमध्ये आम्रवृक्षसमीपे गुरुद्वी शिष्यौ नीत्वा ताभ्यां कथितवान् - 'एतस्मिन् वृक्षे के के गुणाः सन्ति इति कथ्यताम् ।' प्रथमशिष्यः प्राह - 'एष वृक्षस्स्वस्वभावेन फलति फलं च यच्छति । अपरं कमपि गुणमहं न जानामि' इति । गुरुणा द्वितीयः शिष्यः पृष्टः । द्वितीयशिष्योऽपि प्राह- 'अस्य वृक्षस्य बहवः गुणाः सन्ति । स आतपं सहित्वाऽन्यस्मै छायां ददाति । तं प्रति यदि कोऽपि ग्रावाणमपि क्षिपेत् तस्मै अपि सः फलं यच्छति । तस्योपरि बहुफलानि भवन्ति तथापि सः नम्रीभवति । इत्यादयोऽनेके गुणाः सन्ति किन्तु सर्वानपि वक्तुं न शक्नोति' । शिष्यस्योत्तरं श्रुत्वा हृष्टो गुरुस्तमेवाऽऽचार्यपदाधिरूढं कृतवान् ।। ७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy