SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सत्यवती VANVAN डो. आचार्यरामकिशोर मिश्रः सत्यवती कान्यकुब्जराजगाधेः पुत्र्यासीत् । ऋषिणा ऋचीकेन सा विवाहिता । बहुकालानन्तरं यदा तस्याः सन्तानोत्पत्तिर्नाऽभवत्तदा सा स्वपति प्रार्थयामास - भगवन् ! ममोत्पत्तेरनन्तरं मे मातरि विवाहानन्तरञ्च मयि न कोऽपि सन्तानो जातः । अतः कोऽपीदृश उपायः कार्यो भवता, येनाऽऽवयोवंशवर्धकबालौ जायेयाताम् । स्वप्न्याः प्रार्थनया सेवया च प्रसन्नेनर्षिणा ऋचीकेन पुत्रोत्पत्तिमन्त्रेणाऽभिमन्त्रितो यज्ञियचरु: स्वपत्न्यै सत्यवत्यै दत्तः, कथिता च सा - देवि सत्यवति ! शृणु, एष यज्ञियो दिव्यचरुर्भागद्वये विभक्तोऽस्ति । अस्य भक्षणेन यथेष्टपुत्रप्राप्तिर्भविष्यति । अतोऽस्य प्रथमभागं त्वं भक्षय, द्वितीयभागं च स्वमात्रे भक्षणाय प्रदेहि । अस्य प्रथमभागस्य भक्षणेन त्वं ब्राह्मणशक्तिसम्पन्नं पुत्रं जनयिष्यसि, V8 द्वितीयभागभक्षणेन च तव मातरि क्षत्रियशक्तिसम्पन्नस्तेजस्वी पुत्र उत्पत्स्यते । यज्ञियचरुं दत्त्वा महर्षिः ऋचीको वनं तप्तुं जगाम । दैवयोगात्तदानीमेव महाराजगाधिरपि तीर्थदर्शनप्रसङ्गात्स्वपल्या सह स्वपुत्र्याः सत्यवत्याः कुशलतां प्रष्टुमचीकाऽऽश्रममाजगाम । सत्यवती यज्ञियचरोर्भागद्वयमपि स्वजनन्यै समर्पितवती । 'यज्ञियचरुभक्षणेन पुत्रोत्पत्तिर्भविष्यती'तिज्ञात्वा गाधिपत्न्या प्रथमं चरोः प्रथमभागो भक्षितः । ततः सत्यवत्या द्वितीयभागो भक्षितः । ऋषिनिर्मितचरुभक्षणप्रभावोऽक्षुण्ण आसीत् । अतो गाधिपत्नी सत्यवती च ते द्वे अपि गर्भवत्यौ बभूवतुः । गाधिपत्नी यं पुत्रमसूत, स विश्वरथनामा कान्यकुब्जस्य राजा बभूव, यः पश्चाद् ब्राह्मणशक्तिसम्पन्नो महर्षिविश्वामित्रोऽभवत् । सत्यवती यं पुत्रमजनयत् स क्षत्रियशक्तिसम्पन्नो महर्षिजमदग्निरासीत्, यस्य पुत्रो poooooooo महर्षिपरशुरामो बभूव । विश्वामित्रो जमदग्निजनन्याः सत्यवत्याः सहोदरोऽनुज आसीत्, यो जमदग्नेर्मातुलो बभूव । सत्यवत्याः प्रयत्नेन विश्वामित्रोऽजायत । 100000000 स ऋग्वेदस्य सूक्तकारोऽस्ति, यो गायत्रीमन्त्रं व्यरचत् - Aur - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy