Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ नाकमा बुद्धिः सर्वार्थसाधिका मुनित्रैलोक्यमण्डनविजयः ) "मन्त्रीश्वर ! अस्माकं राज्ये अन्यधर्मिणामेकच्छत्रं साम्राज्यम् । जैनद्वेषिणस्ते श्री जिनचैत्यं निर्मापयितुमुद्यतानस्मान् सर्वदा विविधप्रकारैः पीडयन्ति, त्रासयन्ति ) वारयन्ति च । राजशासनमपि तदनुकूलम् । वयं न प्रतीकारार्थं प्रभवामः । जिनदर्शनं विना सन्तप्यन्तेऽस्माकं हृदयानि । भवान् कृपया साहाय्यं ददातु ।" " इत्यवदद् देवगिरित* आगतः श्रावकसङ्घः । "भो बन्धवः ! सार्मिकानां साहाय्यं मम कर्तव्यमेव । अहमवश्यं से प्रयत्नं करिष्यामि । जिनालयास्तु मया बहवो निर्मापिताः, परमेतादृशे स्थले यदि भी 20. जिनभवनं निर्माप्येत, तर्हि नूनं प्रभूतो लाभः स्यात् । कथमपि कार्यं साधयिष्यामि। VD भवन्त आश्वस्ता भवन्तु'' इत्यवोचद् अवन्तिसाम्राज्यस्य महामन्त्री पेथडः । पश्चात् स स्वपुरुषान् देवगिरिं प्रेषयित्वा तत्रत्या वार्ताः सङ्ग्रहीतवान् । " तत्र प्रमुखा अंशा इमे आसन्-देवगिरेः सम्पत्तिः प्रभूता । राज्यं धनधान्यैः पूर्णम् । म राजा श्रीराम उत्तमः शासकः । अपारं सैन्यं तस्य । केवलं गजा एव द्वादशसहस्राः । महामन्त्री हेमाद्रिर्यद्यपि स्वभावत उत्तमः, किन्तु दानेऽत्यन्तकृपणः । राजशासने भी तस्य दृढं वर्चः । श्रावकैरुक्तमपि सर्वं सत्यमिति । मन्त्रीश्वरः पेथडः सर्वमालोच्य निर्णीतवान् यत् स्वकार्यसिद्ध्यै कथमपि । 1150 हेमाद्रिः तोषणीयः । तस्य तोषणेन सर्वं सम्पत्स्यते । यद्यपि महर्द्धिकस्य तस्य दुई ॐ स्वर्णमाणिक्यादिप्रदानादिभिः सरलैरुपायैः तुष्टिसम्पादनं शक्यं नाऽऽसीत्, तथापि भी मन्त्रीश्वरः स्वबुद्ध्याऽद्भुतमुपायं प्रकल्पितवान् । स देवगिरिराज्ये ॐकारनगरे एकं सत्रमारब्धवान् । सत्रेऽस्मिन् जायमानं महान्तं धनव्ययं यद्यपि पेथड एव निर्वहति स्म, तथापि यथा दानशौण्डत्वेन हेमाद्रेरेव यशः स्यात् तथा व्यवस्थां स कारितवानासीत् । अनेन हेमाद्रेः तोषणमपि भी स्यात्, स्वेन दानोद्भवं पुण्यमपि प्राप्येतेति मन्त्रीश्वरस्य चिन्तनमासीत् । तस्येयं 8 150 युक्तिनं सफला जाता । ॐ ★ इदानीमस्य पुरस्य नाम 'दोलताबाद' इति । 8 0 अवन्तिसाम्राज्यस्य राजधानी तदानीं मण्डपदुर्ग (मांडवगढ/मांडु) आसीत् । अत: पेथडो का मण्डपदुर्गस्य मन्त्रीत्यप्युत्यते । ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126