Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
............
विजययात्रेयं किमत्रैव समाप्स्यति ? इति । भ्रमोऽयं ममेति विचार्य स मस्तकं बलाद् व्यधूनयत् । किञ्चिद् विचार्य राजसिंहासनं प्रत्यङ्गुलिनिर्देशेनोक्तवान् - वयं कलिङ्गस्य राजसिंहासनमिच्छामः ।
श्रुत्वैतद् अमिता चिन्तिता जाता । किन्तु पञ्चषनिमेषैरेव प्रत्युत्तरितवती - अस्तु, यद्येतद् भवदभिलषितं तर्हि गृह्णातु । भवतः सकाशे राजसिंहासनं नाऽस्ति खलु ? भवतु, भवतु, भवानेतद् गृह्णातु । वयमन्यद् निर्मास्यामः ।
मगधाधिपतिः स्तब्धो जातः । युद्धे द्विलक्षसैनिकानां रुधिरेणाऽप्यप्लावितं सुर्वणमण्डितेन लौहकवचेनाऽऽवृतं तस्य हृदयमस्या बालिकाया निर्दोषैः वचनैरामभूत् । स्वखड्गं स भूमौ क्षिप्तवान् । अमितां च कलिङ्गस्य बालराज्ञी हस्ताभ्यामुन्नीय हृदयसात् कृतवान् । उक्तवांश्च -
'भो ! महाराज्ञि ! विजय्यप्येष मगधेश्वरोऽद्य पराजितोऽस्ति । अद्य तव जयोऽभवत् ।' -इत्युक्त्वा तद्हस्ताच्छृङ्खलां गृहीत्वा स्वगले क्षिप्तवान् - देवि ! सम्राडशोकोऽयं तव बन्धकोऽस्ति । यथेच्छमादिशतु । किं भवतीच्छति ?
नहि नहि, न वयं किमप्यभिलषामः - पुलकिता राज्ञी कथितवती । एवं सत्यपि बन्धकाय अशोकाय किमप्यादिशतु ।
अस्तु, अस्माकमादेशोऽस्ति यदतः परं न कोऽपि सन्तापनीय, न लुण्टनीयः, नाऽपि च हन्तव्यः - बालराज्ञी सोत्साहं कथितवती ।
सम्राट् अशोकोऽयमद्य प्रतिजानीते यदतः परं न कमपि सन्तापयिष्यति, न भापयिष्यति न च हनिष्यति । हिंसया युद्धेन वा न विजयी भविष्यति, अपि तु स्नेहेनैव सर्वेषां प्राणिनां हृदयानि विजेष्यति ! - इति मगधसम्राट् उक्तवान् !
..........
...
...
.
...
६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126