Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ तत्र नैयायिकास्तावद् उपमिति सञ्ज्ञिसम्बन्धप्रतीतिरूपां मन्यन्ते । अर्थादतिदेशवाक्यश्रवणानन्तरमरण्यं गतवतः पुरुषस्य 'अयं गवयपदवाच्यः' इति या प्रतीतिर्भवति सैवोपमानस्य फलमस्तीति तन्मतम् । किन्तु मीमांसका हि नैवं मन्यन्ते । ते कथयन्ति यत् - न ह्युपमानस्य फलं समाख्यासम्बन्धप्रतीतिः, अपि तु परोक्षगवि गवयसादृश्यस्य यज्ज्ञानमर्थाद् 'मद्गृहगतो गौर्गवयसदृशः' इति ज्ञानं भवति तदेवोपमानस्य फलम् । ततश्चोपमितिर्नाम नैव सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतीतिरूपा किन्तु परोक्षवस्तुविषयकं सादृश्यज्ञानमेवोपमितिरिति सण्टङ्कः । तदेवं निरूपिता उपमानप्रमाणस्य स्वरूप प्रामाण्य-फलान्याश्रित्य दार्शनिकानां मतभेदाः || Jain Education International ( आधारग्रन्थः न्यायावतारवार्तिक-टिप्पणानि ) एके केचिद यतिकरगतास्तुम्बिका: पात्रलीलां गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः । अन्ये केचिद् ग्रथितसुगुणा दुस्तरं तारयन्ते तेषां मध्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥ ६३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126