________________
तत्र नैयायिकास्तावद् उपमिति सञ्ज्ञिसम्बन्धप्रतीतिरूपां मन्यन्ते । अर्थादतिदेशवाक्यश्रवणानन्तरमरण्यं गतवतः पुरुषस्य 'अयं गवयपदवाच्यः' इति या प्रतीतिर्भवति सैवोपमानस्य फलमस्तीति तन्मतम् । किन्तु मीमांसका हि नैवं मन्यन्ते । ते कथयन्ति यत् - न ह्युपमानस्य फलं समाख्यासम्बन्धप्रतीतिः, अपि तु परोक्षगवि गवयसादृश्यस्य यज्ज्ञानमर्थाद् 'मद्गृहगतो गौर्गवयसदृशः' इति ज्ञानं भवति तदेवोपमानस्य फलम् । ततश्चोपमितिर्नाम नैव सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतीतिरूपा किन्तु परोक्षवस्तुविषयकं सादृश्यज्ञानमेवोपमितिरिति सण्टङ्कः ।
तदेवं निरूपिता उपमानप्रमाणस्य स्वरूप प्रामाण्य-फलान्याश्रित्य दार्शनिकानां मतभेदाः ||
Jain Education International
( आधारग्रन्थः
न्यायावतारवार्तिक-टिप्पणानि )
एके केचिद यतिकरगतास्तुम्बिका: पात्रलीलां गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः । अन्ये केचिद् ग्रथितसुगुणा दुस्तरं तारयन्ते तेषां मध्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥
६३
For Private & Personal Use Only
www.jainelibrary.org