________________
___4. आचार्यप्रवरैरुमास्वातिभिरुपमानस्य विचारो नयवादरूपया जैनदृष्ट्या कृतोऽस्त्यतस्तन्मतेनोपमानं प्रमाणं भवेदपि नाऽपि भवेत् । २४एतैर्यदा प्रमाणस्य प्रत्यक्ष-परोक्षाख्यौ द्वौ भेदौ प्रतिपाद्य मत्यादिज्ञानानि२५ तयोरेव समाविष्टानि तदा प्रश्नोऽयमुत्थितो यद् नैयायिकादिसम्मतानि तथा २६भगवत्यादिषु जैनशास्त्रेषु निर्दिष्टानि प्रत्यक्षानुमानोपमानागमाख्यानि चत्वारि चत्वारि प्रमाणानि एतौ च द्वौ भेदौ कथं समन्वेतव्यौ ? आचार्यैरुत्तरितं यदेतानि चत्वार्यपि मति-श्रुतज्ञानयोः समावेष्टव्यानि । अर्थात् प्रत्यक्षानुमानोपमानानि मतिज्ञाने आगमप्रमाणं च श्रुतेऽन्तर्भावनीयानि । एतेनेदं फलितं भवति यत् चत्वार्यपि प्रमाणानि परोक्षप्रमाणस्यैवाऽन्तर्गतानि । प्रस्तुते चोपमानप्रमाणं परोक्षं मतिज्ञानं चाऽस्ति ।
जैनदृष्ट्या सम्यग्दृष्टिजीवस्यैव मतिज्ञानं ज्ञानमत एव च प्रमाणम् । तथा मिथ्यादृष्टिजीवस्य मतिज्ञानमज्ञानं ततश्चाऽप्रमाणम् । एतदनुसारेण उमास्वातिभिः प्रतिपादितं यन्निर्दिष्टानि चत्वार्यपि प्रमाणानि मिथ्यादृष्टिपरिगृहीतत्वादप्रमाणान्येव । ततश्चोपमानं यदि मिथ्यादृष्टेः स्यात् तदा तदप्रमाणमेव।
दृष्ट्यन्तरेणाऽपि आचार्या विषयमिमं विचारयन्ति । ते कथयन्ति यत् शब्दनयानुसारेण न कोऽपि जीवो मिथ्यादृष्टिरज्ञो वा भवति । तदृष्ट्या सर्वाण्यपि ज्ञानानि प्रमाणान्येव । ततश्चोपमानमपि प्रस्तुते प्रमाणमेव । ३. उपमानस्य फलम् -
उपमानफलविषयकोऽपि विवादो दर्शनेषु दृश्यते । उल्लेखनीयो मतभेदो नैयायिक-मीमांसकयोरस्ति ।
२४. तत्त्वार्थभाष्यम् १.१३ । २५. मति-श्रुता-ऽवधि-मनःपर्यव-केवलज्ञानानि पञ्च । २६. भगवती ५.४ । २७. अप्रमाणान्येव वा । कुतः ? मिथ्यादर्शनपरिग्रहात्, विपरीतोपदेशाच्च । तत्त्वार्थभाष्यम्
१.१३ ॥ २८. चेतना-ज्ञस्वाभाव्याच्च सर्वजीवानां नाऽस्य कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते,
तस्मादपि विपर्ययान् न श्रयत इति । अतश्च प्रत्यक्षानुमानोपमानाप्तवचनानामपि प्रामाण्यमभ्यनुज्ञायत इति ॥ तत्त्वार्थभाष्यम् १.३५ ॥
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org