SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ गवयदर्शनानन्तरं तत्स्वीकारे तस्य गृहीतग्राहित्वात् स्मृतिवदुपमानमपि प्रमाणं नैव भवेत् । स एवमपि वदति यद् - यदि उपमानस्य प्रामाण्यं स्वीकर्तव्यमेव तदा न स्वातन्त्र्येण, किन्तु तस्याऽनुमानेऽन्तर्भावं कृत्वैव कर्तव्यम् । जैनव्याख्याकारेण सिद्धर्षिगणिनाऽपि तदनुमाने एवाऽन्तर्भावितम् । प्रमालक्ष्मकारेणाऽपि तदनुमाने एवाऽन्तर्भावितम्२९ । विवेकस्त्वयं यत् तेन मीमांसकसम्मतमुपमानमनुमानान्तर्गततया स्वीकृतम् । तथा नैयायिकसम्मतमुपमानमधिगतग्राहित्वात् न प्रमाणमिति शान्तरक्षितस्येव स्वीकृतम् ।२१ (३) जैनाचार्यैरुपमानं प्रत्यभिज्ञानाभिधपरोक्षप्रमाणान्तर्गततया स्वीकृतमस्ति । यथोर्ध्वतासामान्यं विषयीकृत्य ‘स एवाऽय' मिति सङ्कलनात्मकः प्रत्ययो भवति, तथैव तिर्यक्सामान्यं विषयीकृत्य 'तत्सदृशोऽय'मिति सङ्कलनात्मकः प्रत्ययो भवति । जैनाचार्याणां मतेनाऽन्येऽपि सङ्कलनात्मकाः प्रत्यया भवन्ति, यथा- 'इदमस्माद् दूरं - ह्रस्व'मित्यादि । एते सर्वेऽपि सङ्कलनात्मकाः प्रत्ययाः प्रत्यभिज्ञाने एवाऽन्तर्भवन्ति । (४) वाचस्पतिमिश्रेण साङ्ख्यतत्त्वकौमुद्यां मीमांसकसम्मतमुपमानं प्रत्यक्षेऽन्तर्भावितम् । यदाह स- 'यत् तु गवयस्य चक्षुःसन्निकृष्टस्य गोसादृश्यज्ञानं तत् प्रत्यक्षमेव । अत एव स्मर्यमाणायां गवि गवयसादृश्यज्ञानं प्रत्यक्षम् । न हि अन्यद् गवि सादृश्यमन्यच्च गवये । भूयोऽवयवसामान्ययोगो हि जात्यन्तरवर्ती जात्यन्तरे सादृश्यमुच्यते । सामान्ययोगश्चैकः । स चेद् गवये प्रत्यक्षो गव्यपि तथा ।' (का० ५) 3. उपमानस्य पृथक् प्रामाण्यं नैयायिकानां मीमांसकानां चाऽभीष्टम् । वेदान्तदर्शनं व्यवहारे भट्टनयमनुसरत्यतस्तस्याऽपि पृथक् प्रामाण्यमेवेष्टम् । एतदतिरिच्य नाऽन्यत्र दर्शने पृथक् प्रामाण्यं स्वीकृतम् । १८. तत्त्वसंग्रहकारिका १५६४-६५ । १९. तत्त्वसंग्रह का० १५७५-७६ ॥ २०. न्यायावतारटीका पृ. २० । २१. प्रमालक्ष्म कारिका - ३१६, ३३४ । २२. कुण्डलकटकादिपूर्वापरपर्यायानुगामि सुवर्णादिद्रव्यमूर्ध्वतासामान्यम् । २३. विभिन्नदेशकालस्थितानां घटादिव्यक्तीनां सदृशाकारपरिणामलक्षणं घटत्वादिसामान्यं तिर्यक्सामान्यम् । ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy