________________
(१) प्राचीननैयायिका हतिदेशवाक्यमुपमानप्रमाणतया मन्यन्ते । तदतिदेशवाक्यस्वरूपमुपमानमागमे एवाऽन्तर्भवतीति मीमांसका वैशेषिकाः साङ्ख्याश्च कथयन्ति - • तस्याऽगमाबहिर्भावादन्यथैवोपवर्णितम् ।
पुरुषप्रत्ययेनैव तत्राऽर्थः सम्प्रतीयते ॥
तदीयवचनत्वेन तस्मादागम एव सः । (श्लोकवार्तिकम् - उप० २,३) • आप्तेनाऽप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव ।।
__ (प्रशस्तपादभाष्यम्, पृ. ५७६) • उपमानं तावद् 'यथा गौस्तथा गवयः' इति वाक्यम्, तज्जनिता धीरागम एव।
(साङ्ख्यतत्त्वकौमुदी, कारिका-५) अत्र यद्यपि मीमांसकानामुपमानं पृथक् प्रमाणतयेष्टमेव तथाऽपि तन्मतेनैतल्लक्षणं नैयायिकेभ्यो भिन्नमेव । अत एव तैर्वृद्धनैयायिकसम्मतमुपमानमागम एवाऽन्तर्भावितम् । साङ्ख्या वैशेषिकाश्चोपमानं प्रमाणतया स्वीकुर्वन्त्येव किन्तु न पृथक्तया । तत एव तेऽपि प्राच्यनैयायिकलक्षितमुपमानमागमेऽन्तर्भावयन्ति ।
(२) प्राचीनैर्लक्षितमतिदेशवाक्यं स्पष्टतयाऽऽगमरूपमेवेति नव्यनैयायिकैरुपमानस्याऽन्यल्लक्षणं कृतम् । तदनुसारमतिदेशवाक्यं श्रुत्वाऽरण्यं गतस्य सारूप्यदर्शनं भवति - अर्थाद् गोसदृशगवयदर्शनं भवति । ततश्च सञ्जासञ्जिसम्बन्धप्रतिपत्तिर्भवति - अर्थादयं गवयपदवाच्य इति प्रतीतिर्भवति । प्रतीतिरेषोपमानस्य फलमस्ति । अत एव सारूप्यदर्शनस्य करणत्वादुपमानस्य प्रमाणत्वम् - इति नव्यैः प्रतिपादितम् । एतत्तूपमानमागमेऽन्तर्भावयितुमशक्यमासीत् । अत उपमानस्य पृथक् प्रामाण्यममन्वानैः साङ्ख्यैस्तदनुमाने एवाऽन्तर्भावितम् ।
नवीनकृतं लक्षणं बौद्धः शान्तरक्षितोऽपि न सद् मन्यते । स कथयति DOC यद् - अतिदेशवाक्ये श्रुते एव समाख्यासम्बन्धप्रतिपत्तिर्भवति । अत एव १७. योऽप्ययं 'गवयशब्दो गोसदृशस्य वाचकः' इति प्रत्ययः सोऽप्यनुमानमेव । यो हि शब्दो यत्र वृद्धैः प्रयुज्यते
सोऽसति वृत्त्यन्तरे तस्य वाचकः, यथा गोशब्दो गोत्वस्य, प्रयुज्यते चैव गवयशब्दो गोसदृशे इति तस्यैव वाचक इति तज्ज्ञानमनुमानमेव । साङ्ख्यतत्त्वकौमुदी का० ५ ।।
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org