________________
सर्वप्रमाणानि खण्डितानि । अत एव तन्मतेऽपि उपमानस्य प्रामाण्यं नास्ति ।१४ क..
जयन्तेन मीमांसकसम्मतमुपमानं स्मृतावन्तर्भाव्य तदप्रामाण्यं साधित- । मस्ति । स कथयति यत् - गवयदर्शनेनेयं प्रतीतिर्भवति यद् 'अनेन सदृशो . गौर्मया नगरे दृष्टः', एषा च प्रतीतिः स्पष्टतया स्मृतिरेवेति ।१५
अकलङ्काद्या अन्ये सर्वेऽपि जैनाचार्याः उपमानं प्रत्यभिज्ञानन्तर्गतमेव मन्यन्ते - इत्येतदग्रे वक्ष्यते एव । किन्तु न्यायावतारे आचार्यसिद्धसेनदिवाकरसूरयः प्रत्यक्षानुमानागमाख्यानि त्रीण्येव प्रमाणानि निरूपयन्ति । उपमानविषये ते किमपि न कथयन्ति । शान्त्याचार्या अपि न्यायावतारस्य स्वरचिते वार्तिके बौद्धवत् तच्छब्देष्वेवोपमानमप्रमाणतया साधयन्ति, अन्यजैनाचार्यवत् तस्य प्रत्यभिज्ञायामन्त वमपि न स्वीकुर्वन्ति । यद्यपीदं तेषां मूलन्यायावतारसमर्थनं कथ्येत, तथाऽप्येवंकरणेन स्वसमयावधिजातस्य समग्रजैनन्यायस्य विकास उपेक्षितो भवति ।
इदमत्र ज्ञेयं यत् - यद्यपि शान्त्याचार्यैरुपमानमप्रमाणतया साधितं तथाऽपि यस्मिन् प्रत्यभिज्ञानेऽन्यै नाचार्यैरुपमानमन्त वितं तत् तु तैः प्रमाणतयैव मतम् । एतत् त्वन्यद् यदन्ये जैनाचार्याः प्रत्यभिज्ञां स्वतन्त्रपरोक्षप्रमाणतया मन्यन्ते शान्त्याचार्यास्तु तां नैयायिकादिवत् प्रत्यक्षमेव मन्यन्ते१६ ।
2. इदानीमुपमानस्याऽन्तर्भावविषयको विचारः क्रमप्राप्तः । ये दार्शनिका उपमानं प्रमाणतया तु मन्वन्ते किन्तु पृथक् प्रमाणं तदिति न मन्यन्ते ते हि स्वाभिमते कस्मिंश्चित् प्रमाणे तदन्तर्भावयन्ति । उपमानान्तर्भावविषये निम्नलिखितानि मतान्युपलभ्यन्ते -
(१) आगमेऽन्तर्भावः । (२) अनुमानेऽन्तर्भावः । (३) प्रत्यभिज्ञायामन्तर्भावः । (४) प्रत्यक्षेऽन्तर्भावः ।
१४. खण्डनखण्डखाद्यं प्रथमपरिच्छेदः ।। १५. न्यायमञ्जरी पृ. १४७ ॥ १६. "ननु द्रव्यस्य कुतः सत्त्वसिद्धिः? प्रत्यभिज्ञाप्रत्यक्षादिति ब्रूमः । तथाहि... प्रत्यभिज्ञा कथं न
प्रत्यक्षम?" न्यायावतारवार्तिकं - श्लोक क्र. ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org