SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 3. उपमानस्य पृथक् प्रामाण्यम् । 4. उपमानस्य प्रामाण्याप्रामाण्ययोरनेकान्तत्वम् । क्रमश एतानि पश्यामः - 1. उपमानस्य सर्वथाऽप्रामाण्यं बौद्धसम्मतम् । तत्त्वोपप्लवसिंहकारो जयराशिरपि चार्वाकः उपमानप्रामाण्यं नैव मन्यते । तमेवाऽनुकुर्वन् वेदान्ती श्रीहर्षी जैनश्च श्रीशान्त्याचार्योऽपि तत्प्रामाण्यं नैव मन्यते । शान्तरक्षितः प्रज्ञाकरगुप्तश्चेति द्वावपि बौद्धाचार्यो समानतयैवैवं कथयतो यत् - उपमानं प्रमाणमेव नाऽस्ति, यतस्तस्य न किमपि प्रमेयम् । अन्यच्च, यदि सादृश्यप्रतिपादकतयोपमानं प्रामाण्यं तर्हि वैसादृश्यग्राहकमन्यदपि प्रमाणं स्वीकर्तव्यम् । ततः शान्तरक्षितेणोपमान-स्मृत्योरभेदं साधयित्वा स्मृतिवत् तदप्रामाण्यमपि स्थापितमस्ति । स कथयति यद् - "गवि गवये च कानिचिदवयवानि सन्ति यानि तुल्यप्रत्ययोत्पत्तौ हेतूभवन्ति । एतान्यवयवान्यतिरिच्य नास्ति किञ्चित् सादृश्यं सामान्यं वा पृथग्भूतं यत् तुल्यप्रत्ययोत्पत्तौ हेतूभवेत् । अत एव यदा वयं गवयं पश्यामस्तदा गोगतानां तादृशावयवानां स्मृतिर्भूयोदर्शनेन हेतुना भवति । इदमेवोपमानम् । अत एव स्मृतिरूपत्वात् न तत् 'प्रमाणम्' । सामान्यतः सर्वेऽपीदमेव मन्यन्ते यत्-चार्वाकः प्रत्यक्षं प्रमाणतया मन्यते । किन्त्वत्र तत्त्वोपप्लवसिंहकारो जयराशिश्चार्वाकत्वेऽपि प्रत्यक्षमपि प्रमाणतया न मन्यते । एवं स्थिते तन्मते उपमानप्रामाण्यस्य प्रश्न एव नोत्तिष्ठते। यदाह१२ - "प्रत्यक्षमूलकमुपमानं, तदपगमे तस्याऽप्यपगमात्" । बौद्धवत् सोऽपि कथयति९३ यत् - "सादृश्यरूपो विषय एव यदाऽसिद्धस्तदोपमानं प्रमेयहीनतया प्रमाणं कथं सम्भवेत् ?" श्रीहर्षेणाऽपि तत्त्वोपप्लवसिंहं माध्यमिकबौद्धांश्चाऽनुसृत्य प्रत्यक्षादि ९. प्रमेयवस्त्वभावेन, नाऽभिप्रेताऽस्य मानता ॥ (तत्त्वसङ्ग्रहः - कारिका १५४३, प्रमाणवा० - अलं० पृ. ५७४) ॥ १०. तत्त्वसं० का० १५५९, प्रमाणवा. पृ. ५७६ ॥ ११. तत्त्वसं० का० १५४७-१५४९ ॥ १२-१३. तत्त्वोपप्लवसिंहः पृ. ११० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy