________________
नैव निरूपितम्। किन्तु निर्दिष्टाभ्यां साधोपनीत-वैधोपनीताभिधाभ्यामुपमाभेदाभ्यामिदमनुमीयेत यदनुयोगद्वारकृन्मते सादृश्य-वैदृश्यज्ञाने एवोपमाप्रमाणे। CA
न्यायसूत्रे ह्युपमानपरीक्षायाः पूर्वपक्षे निरूपितमिदं यद् यत्राऽत्यन्तं, प्रायः एकदेशेन वा साधर्म्यं तत्रोपमानप्रमाणं नैव भवेत् । तथैतेभ्यस्त्रिभ्योऽन्यः साधर्म्यस्य प्रकार एव नाऽस्ति । अत उपमानप्रमाणमसिद्धमेव । किन्तु, अनुयोगद्वारे साधोपनीतोपमानस्य वैधोपनीतोपमानस्य च ये त्रयस्त्रयो भेदा उपदर्शितास्ते ह्युक्तपूर्वपक्षिणा निषिद्धा साधर्म्यभेदा एव । यथा -
"से किं तं साहम्मोवणीए ? साहम्मोवणीए तिविहे पण्णत्ते, तं जहा - किंचिसाहम्मोवणीए, पायसाहम्मोवणीए, सव्वसाहम्मोवणीए । से कि तं किंचिसाहम्मोवणीए ? - जहा मंदरो तहा सरिसवो, जहा समुद्दो तहा गोप्पयं, जहा आइच्चो तहा खज्जोओ, जहा चंदो तहा कुमुदो । से किं तं पायसाहम्मोवणीए ? – जहा गो तहा गवयो । से किं तं सव्वसाहम्मोवणीए ? - सव्वसाहम्मे ओवम्मे नत्थि । तहा वि तेणेव ओवम्मं कीरइ जहा अरिहंतेहिं अरिहंतसरिसं कयं ।" (अनु० पृ. २१७)
5. जैनानां प्राचीनेऽनुयोगद्वारसूत्रे वर्णितमुपमानप्रमाणमेवाऽग्रेतनै नदार्शनिकैः प्रत्यभिज्ञायामन्तर्भावितमस्ति । तल्लक्षणं च सङ्कलनात्मकं सम्यग्ज्ञानमिति निरूपितमस्ति । अस्यां प्रत्यभिज्ञायामतीतानां वर्तमानानां च पर्यायाणां सङ्कलनाया ज्ञानं भवति । यदा चाऽस्याः सङ्कलनाया विषयः सादृश्यं भवेत् तदा तामन्ये दार्शनिका उपमानतया वर्णयन्ति जैनाचार्याश्च सादृश्यप्रत्यभिज्ञानतया निरूपयन्ति । २. उपमानप्रामाण्यम्
उपमानप्रामाण्यविषयकाणि चत्वारि मतान्येतानि1. उपमानस्य सर्वथाऽप्रामाण्यम् ।
2. उपमानस्याऽन्यत्राऽन्तर्भावः । अत्यन्त-प्रायैकदेशसाधादुपमानासिद्धिः ॥ न्यायसूत्र - २.१.४४ ॥ अत्यन्तसाधादपमानं नन भवति, यथा गौरेव गौरिति । प्रायःसाधादपमानं न भवति, यथाऽनड्वानेव महिष इति ।
एकदेशसाधादुपमानं न सिध्यति, न हि सर्वेण सर्वमुपमीयते इति । न्यायभाष्यम् । ८. तत्त्वार्थ श्लो० वा० पृ. १९०, परीक्षा० ३.५., प्रमाणनय० ३.५. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org