SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ तदनन्तरं चाऽनेन सदृशी मदीया गौरिति । अन्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं करणं, गोनिष्ठगवयसादृश्यज्ञानं फलम्" (वेदान्तपरिभाषा पृ. १७६) ॥ 3. यद्यपि जयन्तेन वृद्धनैयायिकानां लक्षणस्य सङ्गतिमुपदर्थ्य मीमांसकाक्षेपः प्रत्युत्तरितोऽस्ति तथाऽपि 'अतिदेशवाक्यमुपमान'मिति मन्यमाना हि वृद्धनैयायिका एव केवलमिति स्वीकर्तव्यम् । यतो यान् नैयायिकान् जयन्तोऽद्यतना इति कथयति ते सर्वे उद्योतकराद्याः नैयायिकाः, स्वयं च जयन्तोऽपि उपमानस्येदं नूतनलक्षणमेवाऽङ्गीकुर्वन्ति समर्थयन्ति च । उक्तन्यायसूत्रस्य नवीनैः कृतां व्याख्यां जयन्तः एवं दर्शयति - "अद्यतनास्तु व्याचक्षते - श्रुतातिदेशवाक्यस्य प्रमातुरप्रसिद्ध पिण्डे प्रसिद्धपिण्डसारूप्यज्ञानमिन्द्रियजं सज्ञासज्ञिसम्बन्धप्रतिपत्तिफलमुपमानम् ।" (न्यायमञ्जरी, पृ. १४२) ॥ अर्थान्नवीनमतेऽतिदेशवाक्यस्मृतिसापेक्षं सारूप्यप्रत्यक्षमुपमानप्रमाणम् । यदाह- "तस्माद् यथा लिङ्ग-लिङ्गिसम्बन्धस्मृत्यनुग्रहे सति लिङ्गपरामर्शोऽनुमानं, तच्च प्रत्यक्षं; तथाऽऽगमाहितसंस्कारस्मृत्यपेक्षं सारूप्यप्रत्यक्षमुपमानमिति" || (न्याय वा. २.१.४८). अत्रेदमवधेयं यत् नव्यनैयायिकानां मीमांसकानां च सम्मते उपमाने स्वरूपभेदो वस्तुतो नाऽस्ति, किन्तु द्वयोरपि मतयोरुपमानप्रामाण्यस्य कार्य फलं वा भिन्नमस्ति । अत एव कार्यभेदात् कारणभेदं स्वीकृत्य द्वयोवर्णनं भिन्नतया कृतमत्र । तयोश्च फल-कार्यभेदचर्चाऽग्रे वक्ष्यते । - अन्यच्च, नैयायिक-मीमांसकयोः सादृश्य-सारूप्यविषयोऽपि मौलिको मतभेदोऽस्ति । ततश्च द्वयोरपि मतयोः सादृश्यज्ञानं भिन्नप्रकारमेव भवेत् । अत एव द्वयोरपि मतयोः सादृश्यज्ञानस्यैवोपमानत्वेऽपि कथितप्रकारेण मतभेदस्य सत्त्वात् द्वे अपि मते प्रस्तुतवर्णने भिन्नतया परिगणिते । 4. जैनानाम्" अनुयोगद्वारसूत्रे औपम्यप्रमाणं निरूपितमस्ति । यस्य कस्याऽपि पदार्थस्य भेदकथनद्वारा तत्स्वरूपवर्णनमिहाऽनुयोगद्वारसूत्रस्य व्याख्याशैली । अत एव तत्रोपमाप्रमाणस्य भेदास्तु परिगणिताः किन्तु तल्लक्षणं ५. भगवतीसूत्रे (व्याख्याप्रज्ञप्तौ) अपि उपमानप्रमाणं निरूपितमस्ति । ६. से किं तं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते, तं जहा-साहम्मोवणीए अ वेहम्मोवणीए अ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy