SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ जयन्तः कथयति यत् - भाष्यकारस्याऽपि ह्यतिदेशवाक्यमेवोपमानप्रमाणतया सम्मतम् । एवं मनने च न काऽपि विसङ्गतिरस्ति । (पृ. १४२) 2. शबरेण स्वीये ब्रह्मसूत्रभाष्ये वृत्तिकारस्योपवर्षस्य मतमनूदितमस्ति । अनेनोपवर्षसम्मतमुपमानलक्षणं ज्ञायते । यद्यपि 'भाष्यटीकाकारा अन्ये च ग्रन्थकृत उपवर्षमतं शबरमतत्वेनैवोल्लिखन्ति यतः शबरेण स्वीये भाष्ये तल्लिखितमस्ति । उपवर्षसम्मतमुपमानलक्षणं हीदम् - "उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति यथा गवयदर्शनं गोस्मरणस्य" । (शाबर. I १.१.५) कुमारिलभट्टः कथयति यत् - अतिदेशवाक्यमेव यद्युपमानतया मन्येत तर्हि तदागमप्रमाणे एवाऽन्तर्भूयेत । अत एव शबरेण (अर्थाद् उपवर्षेण) उपमानस्येदं नवं लक्षणं स्थिरीकृतमस्ति । एतदनुसारेण सादृश्यमेवोपमानप्रमाणम् । यतस्तेनैव स्मरणविषयेऽसन्निकृष्टे गवि गवयसादृश्यस्य बुद्धिर्भवति । अर्थात् 'गौरस्य गवयस्य सदृश:' इति बुद्धिरुत्पद्यते । अग्रे च टीकाकारैः सादृश्यं विहाय सादृश्यज्ञानमेवोपमानप्रमाणमिति स्पष्टीकृतमस्ति । यथा “पूर्वदृष्टे स्मर्यमाणेऽर्थे दृश्यमानार्थसादृश्यज्ञानमुपमानम्" । (शास्त्रदीपिका पृ. ७४) । यथा ह्यनुमानस्य करणं ज्ञायमानलिङ्गस्थाने लिङ्गज्ञानमेव स्थिरीकृतं तथैवाऽत्राऽपि उपमाने सादृश्यस्थाने सादृश्यज्ञानमेव स्वीकृतम् । ४ वेदान्तेऽपि सादृश्यज्ञानमेवोपमानतया वर्णितमस्ति । यदाह - "तत्र सादृश्यप्रमाकरणमुपमानम् । तथा हि नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गवयेन्द्रियसन्निकर्षे सति भवति प्रतीति: अयं पिण्डो गोसदृश इति । १. शाबरे पुनस्तस्याऽऽगमाऽबहिर्भावादन्यथैवोपवर्णितम् । (श्लोकवा. उप. २, तत्त्व सं०व्या० पृ. ५४४) २. अयं च गोस्मरणस्येत्यन्तो भाष्यग्रन्थः उपवर्षसम्मत एव, भाष्यकारेण लिखितत्वात् टीकाकारादिभिर्भाष्यत्वेनैवोच्यते । (शास्त्रदीपिका युक्ति० पृ. ७४) ३. शबरेणोपमाने गवयदर्शनं सादृश्यस्थानीयत्वेन स्वीकृतम् । तथा चाऽऽह-अरण्यं गतस्य गवयाख्यमृगविशेषं पश्यतः गोसदृशो गवयः इत्याकारकसादृश्यविशिष्टगवयदर्शनम् । (शाबरव्या. पृ. ३७) ४. अनुमायां ज्ञायमानं लिङ्गं तु करणं नहि । ( कारिका० ६७), सादृश्यदर्शनोत्थं ज्ञानं सादृश्यविषयकमुपमानम् । (प्रकरण पं. पृ. ११० ) Jain Education International ५५ For Private & Personal Use Only 000 www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy