________________
कक्षा अद्भुतो विजयः
मुनिरत्नकीर्तिविजयः कलिङ्गदेशस्य बालराज्ञी अमिता स्वकीयावासे दोलायामान्दोलयन्ती निश्चिन्तमुपविष्टाऽऽसीत् । आपादमस्तकं स्फारशृङ्गारा सा सानन्दमितस्ततो निरीक्षमाणाऽऽसीत् । सहसैव तस्या दृष्टिराकाशे पतिता । सुदूरं कृष्णमेघानां मध्येऽग्ने रक्तज्वाला विद्युदिव प्रकाशमानाः सा दृष्टवती ।
सविस्मयमासन्नवर्तिनं वृद्धं कञ्चुकिनं सा पृष्टवती - भोः ! किमेतत् ?
भगवति ! अप्रत्याशितो भयानका सङ्कटः कश्चिदापतितोऽस्ति, अतः सुरक्षायै भवती अन्तरागच्छतु - स उक्तवान् ।
किन्तु वृद्धेन तेन निर्दिष्टं भयमप्यवगणय्य सा - अरे ! आगच्छतु, वयमलिन्दं गत्वा सर्वमेतत् पश्यामः - इति हसित्वोक्तवती ।
कथनेनाऽनेन सहैव साऽलिन्दं प्रति धावितवती । तया सह तस्याः शुनको बभूरपि धावितवान् । अलिन्दमारुह्य सा दृष्टवती - समस्तेऽपि नगरे बहवो अट्टालिकाः करालाभिरग्निज्वालाभि वेष्टिता इवाऽऽसन् । गगनचुम्बिन्यो ज्वाला: सर्वत्र प्रसृता आसन् । असहायानां नगरजनानां चीत्काररवः श्रूयमाण आसीत् ।
दृश्यमेतद् दृष्ट्वा बलराज्ञी अमिता व्याकुला विह्वला च जाता - किमेतत् प्रवर्तते ? को नामाऽस्माकं प्रजा लुण्टयति ? - इति ।
सेनापतिः सोमनाथो राजमहालये मगधसैन्येन सह युद्धाय मन्त्रणां कृत्वा व्यूह रचयन्नासीत् । बालराज्ञीमन्वेषयन्तः कतिपयसैनिका अलिन्दमागताः । बालराज्ञी कञ्चुकिनं पृच्छन्त्यासीत् - भोः ! कथयतु नाम कः प्रजाः सन्तापयति? तासु भयं कः प्रसारयति ? कथयतु रे ! किमर्थं मूक इव स्थितोऽस्ति ?
कञ्चुकी सखेदमुक्तवान् - भगवति ! महत्यापत्तिः समुपस्थिताऽस्ति । चलतु, वयं गुप्तावासमाश्रयामः ।
न हि, न हि, प्रथमं तावत् कथयतु नाम यत् कोऽयमस्माकं नगरजनानेवं पीडयति ? कश्च तेषां गृहाणि दहति ? - बालराज्ञी पृष्टवती।
महाराज्ञि ! स दुष्टः अशोकः प्रजा लुण्टयति । क्रूरः शिशूनपि हन्ति । . अतश्चलतु, वयं गर्भगृहं गच्छामः - राज्या हस्तं गृहीत्वा कञ्चुकी कथितवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org