________________
स्वकीयं हस्तं मोचयन्ती अमिता कथितवती न हि तं दुष्टमशोकं ना | किमर्थं स जनान् पीडयति हन्ति वा ?
कञ्चुकी बालराज्ञीं हस्ताभ्यामुन्नीय प्रोक्तवान् - भगवति ! गुप्तावासमाश्रयतु नाम । अशोकः स राक्षस इव क्रूरोऽस्ति । न कोऽपि तं बद्धुमलमस्ति ।
किमर्थम् ? किमर्थं न शक्यं तस्य बन्धनम् ? कुत्राऽस्ति महामात्यः ? भगवति ! अस्माकं कलिङ्गसेना पराजिताऽस्ति । महामात्योऽपि सङ्गरे मृत्युमाप्तवान् ।
-
बालराज्ञी पृष्टवती ।
देवि ! स दुष्टोऽशोक एव तं हतवान् । भवती कृपया शीघ्रं राजप्रासादमागच्छतु। राजमाता भवतीमाह्वयति – कञ्चुकी विह्वलः सन्नुक्तवान् ।
तावताऽधस्ताद् राजमातुः स्वरः समागत: - वत्से ! अमिते ! शीघ्रमागच्छतु
इति ।
कस्तं हतवान् रे !
-
किन्तु, अलिन्दं स्थिता बालराज्ञी हठादधोगमनं निवारितवती । तस्याः परितो भ्रमन्तं सक्रोधं च भषन्तं बधूं दृष्ट्वा तत्समीपगमने सैनिका अपि बिभ्यति स्म ।
पुनश्च हठाद् बालराज्ञी कथितवती वयं तमशोकं ग्रहीष्याम एव ! कञ्चुकिन् ! शुनकस्य शृङ्खलां ममाऽर्पयतु । तया हि वयं तं लुण्टाकमशोकं
भन्त्स्यामः ।
अत्र च राजमहालयस्य समीप एव घोरं युद्धं प्रवर्तमानमासीत् । शत्रुसैन्यस्य विजयं दृष्ट्वा कञ्चुकी शुनकस्य शृङ्खलां तस्या हस्ते समर्पितवान् । तावत् सेनापतिसोमनाथस्य ध्वनिः श्रुतः महाराज्ञि ! त्वरयतु कृपया ।
Jain Education International
1
-
सैनिका उपरिष्टादेव प्रत्युत्तरितवन्तः महालये आगमनं निषेधति देवी । सा हि शृङ्खलां गृहीत्वा अशोकं बद्धुं जिगमिषति - इति ।
तस्मिन्नेव समये शत्रुसैनिकाः कलिङ्गस्य राजप्रासादे स्वकीयाधिपत्यं स्थापयन्तस्तेषां सेनापतिना गोपालेन सह महालये प्रविष्टवन्तः । तदा च सेनापतिगोपालेन ध्वनिः श्रुतः महाराज्ञी शृङ्खला अशोकं बद्धुं गच्छतीति । किन्तु स तं सत्यं नाऽमन्यत । किन्तु पुनः कलिङ्गसैनिकानां कथनं तत्कर्णगोचरीभूतं -
६५
For Private & Personal Use Only
www.jainelibrary.org