________________
महाराज्ञी अशोकं निग्रहीतुं गच्छतीति ।
__ अतो मगधसेनापतिर्गोपालस्ततः प्रतिनिवृत्तः । शस्त्रसज्जैः सैनिकैः परिवृतं राजप्रासादे च प्रविशन्तं अशोकं साभिवादनं स विज्ञप्तवान् - जयोऽस्तु महाराजस्य ! अद्याऽपि महाभयं विद्यते । अतः सावधानो भवतु - इति ।
अजेयस्य अशोकस्य कस्माद् भयं विद्यते सेनापते !? - सक्रोधं अशोकः पृष्टवान् ।
भयभीतः सेनापतिरुक्तवान् - महाराज ! कलिङ्गस्योन्मत्ता महाराज्ञी भवद्बन्धनाय शृङ्खलां गृहीत्वाऽऽगच्छति ।
- अशोकस्तिरस्कारपूर्वकमुक्तवान् - रे! किमेतावताऽपि तस्या गर्वः खण्डितो न जातः ? चलन्तु, एषोऽजेयः अशोकस्तं खण्डयिष्यति । अग्रे भवतु - इति ।
सैनिक-दास्यदिभिः परिवृता अमिता राजमहालयस्य सोपानान्युत्तीर्य बहिः परिसरं प्राप्तवती । सेनापतिः राजमाता च तस्या बोधनाय गुप्तावासं नयनाय च बहु प्रायतताम् । किन्तु निषेधमुखं मस्तकं धूनयन्ती सा दृढमुक्तवती - नैव नैव, मां माऽवरुन्धन्तु । अहं तं दुष्टं अशोकं बद्धवैव विरंस्यामि । स दुष्टोऽस्ति । अहं तं निग्रहीष्याम्येव - इति ।
तावता भारतवर्षस्य चक्रवर्ती अशोकस्तत्र समागतवान् । सैनिकैः स परिवेष्टित इवाऽऽसीत् । खड्गहस्तस्य तस्य खड्गस्य मुष्टिरपि विविधजातीयै । रत्नैर्मण्डिताऽऽसीत् । अशोकं समागतं दृष्ट्वा सेनापतिः सोमनाथः, राजमाता सैनिकाश्च स्तब्धा इव जाताः । निरुच्छ्वासा इव ते सञ्जाताः । किन्तु अमिता तु निर्भयमग्रे गच्छन्ती आसीत् । बालराज्ञीयं व्याघ्रमुखं प्रविशतीव सर्वेऽप्यनुभूतवन्तः । अशोकस्य लक्ष्यमितोऽपि अमितां प्रति न गतमासीत् । अमिताऽपि तं न पूर्वं कदापि दृष्टवत्यासीत् ।
सहसैव सा पृष्टवती - कोऽस्ति भवान् ?
प्रश्नेनाऽनेनाऽनया सर्वनाश आमन्त्रित इति मन्वानाः सर्वेऽपि क्षणं दिङ्मूढा इव जाताः । अशोकोऽपि बालराज्ञीमेतां प्रति तीक्ष्णदृष्ट्या द्रष्टुं लग्नः ।
किन्तु तस्येतादृश्या दृष्ट्याऽप्यविचलिता अमिता पुनरुक्तवती - को भवान् ! सुन्दराकृतिः खलु ! भवतो वस्त्राण्यपि मनोहराणि ! अहा ! खड्गोऽपि किलाऽद्भुतः !
...........................................................................
६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org