________________
......
.......
.....
...
चलतु, भवानप्यस्माभिः सहैव चलतु । वयं तं दुष्टमशोकं निग्रहीतुं गच्छामः ! - एवं कथयन्ती सा हस्तस्थितां शृङ्खलां दर्शितवती ।
अशोकस्तु मौनं स्थिरमेव स्थित आसीत् । तं तथास्वरूपं दृष्ट्वा सखेदं अमिताऽवदत्- अरे ! भवानस्माकमादेशं न स्वीकरोति ? सर्वैरप्यस्माकमादेशः पालनीय एव । अहं कलिङ्गस्य महाराज्ञी प्रजानां च माताऽस्मि । अस्माभिः सहाऽऽगच्छतु, अशोकं निगृह्य प्रत्यागच्छामः ।
अशोकः सविस्मयं पृष्टवान् - किम् ? त्वमेव कलिङ्गस्य महाराज्ञी ?
आम्, अहमेव कलिङ्गस्य महाराज्ञी । वयं तं क्रूरमशोकं निजिघृक्षामः । यतः स प्रजाः पीडयति, निर्दोषान् नगरजनान् हन्ति । भवानपि सहायको भवतु !
विजयी सम्राट् पुनः क्षणद्वयं काष्ठवन्निश्चलो जातः । तं तथा स्थिरं दृष्ट्वा साश्चर्यं अमिता पृष्टवती - अरे ! को भवान् ? किमर्थमेवं स्थितोऽस्ति ? किमर्थं च किमपि न वदति ?
मन्त्रमुग्धः सन् अशोको मन्दमुक्तवान् - अहं सम्राट् अशोकोऽस्मि !
किम् ? भवानेव अशोकः ? भवान् तु सुन्दररूपवान् किल ! किमर्थं भवान् प्रजा एवं परिदेवयति ! किमभिलषितं भवतः ?
अशोकः पुनः स्थिरो निरुत्तरश्च स्थितः ।
अमिता अशोकं प्रति पदद्वयमग्रे गत्वा कथितवती - किं भवतः सकाशे भोजनायाऽन्नं नाऽस्ति ? वस्त्राणि किं न सन्ति ? किं क्रीडनकानि न सन्ति ? किमिच्छति भवान् ? अत्र सर्वमप्यस्ति । वयं सर्वं भवते दास्यामः । आगच्छतु ! - इत्युक्त्वा सा अशोकस्य हस्तं गृहीत्वा तं नीतवती । सम्राट् अशोकोऽपि पालित इव तामनुसृतवान् । सर्वेऽपि राजभवनं प्राप्तवन्तः । तत्र च सर्वत्र स्थितं धनराशि संदर्घ्य अशोकमुद्दिश्य - कथयतु नाम, काऽपेक्षा भवतः ? अपेक्षितं सर्वमपि गृह्णातु । अत्र सर्वमस्ति । अहं भवते तत्सर्वमपि दास्यामि यदपि भवदभिलषितं स्यात्; परं भवता न कोऽपि लुण्ट्यः , न भयं प्रापणीयः, न च कोऽपि हननीयः - इत्युक्तवती ।
इदानीं मगधसम्राट् सर्वथा विवशोऽसहाय इव परिदृश्यते स्म । स हि । तूष्णीमेव स्थित आसीत् । विचारतुमुलं चित्ते समुद्भूतं - समस्तपृथ्वीविजयप्रतिज्ञोऽहमशोकः किमस्या बालिकायाः प्रश्नैः पराजितो भविष्यामि ? '
.
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org