Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ दिभिर्विकसितनन्दनवनं गते सत्यपि जीवानामेतादृशानां दृष्टौ मधुरपुष्पफलादीनि नाऽऽगच्छन्ति, किन्तु कचवर - कण्टकादीन्येवाऽऽगच्छन्ति । एवं येषां दृष्टिरेव मलिना तेषां सर्वमप्यशुभमेव दृश्यते । एते तु सर्वदा निराशायाः पञ्जरे एव बन्धीभूय वसन्ति । ये रुदन्तो गच्छन्ति ते मृत्योः समाचारमानयन्तीति जनश्रुत्यनुरूपं जीवा एते आनन्दक्षणमपि शोकसभारूपेण परिवर्तितं कुर्वन्ति । गुरुर्द्रोणाचार्यो युधिष्ठिरादिजनान् पाठयन्ति स्म । एकदा तेन युधिष्ठिरः पृष्टः भो ! समस्तनगरे कियन्तः सज्जना दुर्जनाश्चेति ज्ञात्वोत्तरं देहि । एतमेव प्रश्नं दुर्योधनमपि पृष्टवान् गुरुदेवः । समस्तनगरस्य निरीक्षणं कृत्वा युधिष्ठिर आगतवानुक्तवाँश्च-गुरुदेव ! नगरे न कोऽपि दुर्गुण्यस्ति । सर्वेऽपि सज्जनाः सन्ति, यतस्सर्वेष्वपि कोऽप्येकगुणोऽस्त्येव । दुर्योधन उवाच - गुरुदेव ! नगरे एतस्मिन्न कोऽपि सद्गुणी दृश्यते । सर्वेऽपि दुर्गुणिन एव सन्ति, यतस्सर्वेष्वपि कश्चिदेकोऽपि दुर्गुणो विद्यते एव । बन्धो ! वयं सर्वेऽपि दुर्योधनस्य वंशजाः स्मः । न वयं केषाञ्चिदपि हितं शुभं वा द्रष्टुं वक्तुं श्रोतुं चाऽपि शक्तास्तर्हि गुणिजनानामादरस्य का वार्ता ? मुद्गेभ्यः कङ्कटुकान् दुग्धाच्च पूतरान् निष्कासयन्तो वयं सद्गुणिजनानां प्रशंसां कर्तुं कथं शक्नुवन्तः सत्यं किल ! वयमपि सद्गुणिनां प्रशंसां कर्तुं शक्नुमः, यदि ते सद्गुणिनोऽस्माकं स्नेहिजनाः स्युः । एवं स्वस्मिन् विद्यमानो लघुरपि सद्गुणो दृश्यते, किन्तु अन्येषां जनानां गुणावलयोऽपि न दृश्यन्ते । तथाऽन्येषां जनानां लघुरपि दोषो दृश्यते, अपि त्वात्मनो बहवो दोषा अपि न दृश्यन्ते । उक्तं च राइसरिसवमित्ताई परच्छिद्दाई पाससि । अप्प बिल्लमत्ताइं अपि छिद्दाई न पाससि ॥ नैतत्तु सर्वथोचितमस्ति । भो ! ज्ञानिजनास्तु कथयन्ति, यत्ते एव ज्ञानिन आदरणीया गुणिनश्च सन्ति येऽन्येषां दुर्गुणान् निरीक्ष्य मौनमासेवन्ते तथा परेषां लघुमपि गुणं सन्दृश्य प्रसन्नतामनुभवन्ति, तथा निजस्य दोषलवमपि दृष्ट्वाऽऽत्मानं निर्गुणं मन्यन्ते । Jain Education International ४४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126