________________
W
ww
Jain Education International
प्रार्थनाद्वयम्
( १ )
हे प्रभो !
उत्तमतयाऽद्य जीवेयम् बलं तादृशं मे देयम् । अहं याचे
न समग्रस्य जीवनस्य कृते नाऽपि आगामिनो मासस्य कृते
न चाऽऽगामिनः सप्ताहस्य कृते नाऽपि आगामिनो दिवसस्य कृते
परं,
केवलमद्यतनस्य दिवसस्य कृते एव ।
तच्च,
अद्य मम मानसं
गुणात्मकैर्विचारैः पूरयतु ये मां समीचीनां दिशं दर्शयेयुः ये च मां सत्यार्थे प्रवर्तयेयुः सम्यग् निर्णेतुं प्रेरयेयुः
एतावदेव ।
अद्य,
अद्यैव च ।
त्वया प्रदत्तां
शक्ति
बुद्धि प्रवीणतां कुशलतां च उत्तमतया यथोपयुञ्ज्यां तथा बलं देयम् ।
अनु. मुनिधर्मकीर्तिविजयः
४७
For Private & Personal Use Only
www
www
www.jainelibrary.org