Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अणूनां त्र्यणुकादिसङ्घातकाले एकत्वसङ्ख्या-परस्परसंयोग-महत्परिमाणचाक्षुषजनकत्वादि-पर्यायैरुत्पत्तिः, यद्वशादेकं महत् त्र्यणुकमित्यादि प्रतीति: बहुत्वसङ्ख्या-विभाग-अणुपरिमाण-चाक्षुषजनकत्वाभावादिपर्यायविशिष्टानां च तेषां निवृत्तिः । एवं स्थूलत्वं = महत्परिमाणवत्त्वं पूर्वमणुरूपेणाऽऽसीत्, पर्यायरूपेण च नाऽऽसीदिति सिद्धम् । एवं सति 'तत्तदवयविवाचकशब्द(घटादि)व्यपदेश्यपर्यायविशिष्टाण्वतिरिक्तमवयविद्रव्यं नाऽस्ती'ति निर्णयः कर्तुं शक्यते ? अवश्यम्, समीचीननिर्णय एषः । शतमाषकापेक्षया शतमाषकारब्धेऽवयविनि किमधिकं गुरुत्वमनुभूतम् ? पृथगवयविनि वस्तुतो मानं न विद्यते । अवगतं खलु तत्त्वं भवत्कृपया ।
शि०
(२)
आ०
शि० प्रभो ! सम्मतिटीकाकारा वदन्ति यद् आत्मादिद्रव्याणां विज्ञानादि
पर्यायोत्पत्तौ न सहभागिता, द्रव्याणां पूर्वमेव निष्पन्नत्वात् । किमिदं तथ्यम् ?
सत्यमेव कथयन्ति ते । I शि० तहि परमाणूनामेव तत्तत्पर्यायैरुत्पादं बोधयतां भवद्वचनानां कथं सङ्गतिः?
अणवोऽपि पूर्वमेव निष्पन्ना इति उत्पादे घटका न भवेयुः । विभिन्ननर्यापेक्षया क्रियमाणयोर्विधानयोविभिन्नतैव भवेत् खलु ? प्रकृते इत्थं नययोजना-द्रव्यार्थिकनयर्यानुसारिणां मते उत्पादात् पूर्वं द्रव्यस्य पर्यायविशेषेणाऽवस्थानम्, उत्पादानन्तरं च तस्यैव तदन्यपर्यायेण स्थितिरिति तेन रूपेण द्रव्यस्याऽनिष्पन्नत्वात् तस्याऽप्युत्पत्तौ सहभागिता । यथा घटोत्पत्तेः पूर्वं कुशूलविशिष्टमृदोऽवस्थानम्, उत्पत्तेः पश्चाच्च घटविशिष्टमृदः ।
१. नयः = विचारणाप्रकारः । २. प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकनयः ।
३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126