SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अणूनां त्र्यणुकादिसङ्घातकाले एकत्वसङ्ख्या-परस्परसंयोग-महत्परिमाणचाक्षुषजनकत्वादि-पर्यायैरुत्पत्तिः, यद्वशादेकं महत् त्र्यणुकमित्यादि प्रतीति: बहुत्वसङ्ख्या-विभाग-अणुपरिमाण-चाक्षुषजनकत्वाभावादिपर्यायविशिष्टानां च तेषां निवृत्तिः । एवं स्थूलत्वं = महत्परिमाणवत्त्वं पूर्वमणुरूपेणाऽऽसीत्, पर्यायरूपेण च नाऽऽसीदिति सिद्धम् । एवं सति 'तत्तदवयविवाचकशब्द(घटादि)व्यपदेश्यपर्यायविशिष्टाण्वतिरिक्तमवयविद्रव्यं नाऽस्ती'ति निर्णयः कर्तुं शक्यते ? अवश्यम्, समीचीननिर्णय एषः । शतमाषकापेक्षया शतमाषकारब्धेऽवयविनि किमधिकं गुरुत्वमनुभूतम् ? पृथगवयविनि वस्तुतो मानं न विद्यते । अवगतं खलु तत्त्वं भवत्कृपया । शि० (२) आ० शि० प्रभो ! सम्मतिटीकाकारा वदन्ति यद् आत्मादिद्रव्याणां विज्ञानादि पर्यायोत्पत्तौ न सहभागिता, द्रव्याणां पूर्वमेव निष्पन्नत्वात् । किमिदं तथ्यम् ? सत्यमेव कथयन्ति ते । I शि० तहि परमाणूनामेव तत्तत्पर्यायैरुत्पादं बोधयतां भवद्वचनानां कथं सङ्गतिः? अणवोऽपि पूर्वमेव निष्पन्ना इति उत्पादे घटका न भवेयुः । विभिन्ननर्यापेक्षया क्रियमाणयोर्विधानयोविभिन्नतैव भवेत् खलु ? प्रकृते इत्थं नययोजना-द्रव्यार्थिकनयर्यानुसारिणां मते उत्पादात् पूर्वं द्रव्यस्य पर्यायविशेषेणाऽवस्थानम्, उत्पादानन्तरं च तस्यैव तदन्यपर्यायेण स्थितिरिति तेन रूपेण द्रव्यस्याऽनिष्पन्नत्वात् तस्याऽप्युत्पत्तौ सहभागिता । यथा घटोत्पत्तेः पूर्वं कुशूलविशिष्टमृदोऽवस्थानम्, उत्पत्तेः पश्चाच्च घटविशिष्टमृदः । १. नयः = विचारणाप्रकारः । २. प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकनयः । ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy