SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ शि० आ० एतदपेक्षयैव भवन्तः तत्तत्पर्यायविशिष्टपरमाणूनामुत्पादविनाशौ प्रतिपादितवन्तः स्युः। सम्यगवधारितं भवता । पर्यायार्थिकनर्यावलम्बिनस्तु स्वीकुर्वन्ति यत् कार्योत्पत्तेः पूर्वं द्रव्ये पर्यायविशेषस्य सत्त्वम्, उत्पत्त्यनन्तरं तु तदन्यपर्यायस्य विद्यमानता । द्रव्यस्य तु पूर्वमेव निष्पन्नत्वान्नोत्पत्तौ घटकतेति । यथा घटोत्पत्तेः पूर्वं मृदि कुशूलपर्यायस्य सत्त्वम्, उत्पत्तेः पश्चाद् घटपर्यायस्य । सम्मतिटीकाकृतः प्रतिपादनमेतं नयमनुसरति । शि० भवद्भिः तत्त्वं बोधयित्वाऽनुगृहीतोऽहम् । शि० शि० प्रभो ! भवद्भिः पूर्वं यद् बोधितं तदनुसारं त्विदमायातम्- अणव एव परिणामात् परिणामान्तरमुपसर्पन्तीति । तत्रैवं नियमं कर्तुं शक्यते यत् पूर्वपरिणामनाशे एवोत्तरपरिणामोत्पादः । कथमेवं निर्णेतव्यम् ? यावद् मृदणूनां घटपरिणामेनाऽवस्थितिस्तावन्न कपालपरिणामेनोत्पत्ति रित्यतः । आ० तन्तुपरिणतानामेवाऽणूनां पटपरिणामप्राप्ति कथं विस्मरसि ? तत्राऽपि तन्तुपरिणामविनाशे एव पटावस्थोत्पादः । अहो भवतो वैदग्धी ! पटे तन्तवः कदाऽपि न दृष्टाः ? नष्टस्याऽप्रत्यक्षत्वनियमो विस्मृतः ? पटद्वयसंयोगाज्जाते महापटे 'अयं पटः' 'इदं पटद्वय'मिति प्रतीतिद्वयं नाऽनुभूतम् ? शि० भवत्कथनस्याऽयमाशयो मया गृहीतः - परिणामान्तरोत्पत्तिं प्रति पूर्वपरिणामेनाऽवस्थितिर्न बाधिकेति ।। केन तथा कथितम् ? घटकपालयोर्दृष्टान्तं त्वया स्वयमुक्तमपि विस्मृतम् ? शि० इदानीं भवन्त एव शरणम् । अहं तु किमपि निर्णेतुं न पारयामि । आ० वत्स ! हताशो मा भूः । त्वज्जिज्ञासामुत्तेजयितुमेवाऽहमेतादृशं जालं रचितवान् । सावधानीभूय शृणु - पूर्वावस्थानाशेनैवोत्तरावस्थोत्पाद इति १. प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकनयः । ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy