________________
त्वदवधारितो नियम आर्हतैरङ्गीकृत एव । परं नाशो द्विविधः-समुदयविभागजनितः समुदयसंयोगजनितश्च । आद्यः पटात् तन्तूनां पृथक्करणे पटनाशरूपः । मुद्गारपाताज्जायमानो घटनाशोऽप्ययमेव । द्वितीयः तन्तुसंयोगात् पटे जायमाने तन्तुनाशरूपः । घटाकारग्रहणकाले मृत्पिण्डविनाशोऽस्मिन् प्रकारे एवाऽन्तर्भवति । अयमर्थान्तरगमनमित्यपि परिचीयते । स्थलद्वयेऽपि पूर्वावस्थाविनाशः समान एव । तथाऽपि घटध्वंसानन्तरं कपालकाले न घटप्रतीतिः, पटकाले च तन्तूनां प्रतीतिरिति किंकृतोऽयं विशेषः ? स्वरूपत एव । समुदयविभागजनितध्वंसानन्तरं यस्य ध्वंसस्तस्य न प्रतीतिः, यथा - विदारणान्तरं पटस्य, स्फोटनानन्तरं घटस्य वा । अर्थान्तरगमने तु पूर्वावस्थाया यद्यपि नाशः, तथाऽपि स नाशः पूर्वावस्थाप्रतीति न बाधते । यथा पटे तन्तुप्रतीतिः, घटे मृत्तिकाप्रतीतिर्वा ।
जातं सर्वं स्पष्टम् ? शि० आम्, गुरुदेव !
इतोऽपि किञ्चिद् बोद्धव्यमस्ति । इमावुभौ विनाशौ शास्त्रे संमीलितरूपेण 'समुदयजनित' इत्युच्यते । अयं स्वाभाविकोऽर्थात् पुरुषप्रयत्नाजन्योऽपि सम्भवति, प्रायोगिकोऽर्थात् पुरुषप्रयत्नजन्यश्चाऽपि सम्भवति । अभ्रविनाशः अङ्करकाले बीजविनाशश्चाऽऽदिमः । प्रायोगिकस्तु दर्शित एव ।। प्रभो ! धर्मास्तिकायादिष्वपि स्वाभाविको विनाशः सम्भवतीति मया श्रुतमासीत् । समुदयजनितस्तु तत्र न सम्भवति, तेषां प्रदेशानां
सर्वदाऽविभक्तत्वात् । तर्हि स कीदृशः ? आ० वदामि । धर्मास्तिकाये गत्याधारतास्वभाव इति त्वं जानास्येव ।
यस्मिन् क्षणेऽधिकृतपदार्थे गतिर्नाऽस्ति, तस्मिन् क्षणे धर्मास्तिकाये
तत्पदार्थगत्यनाधारतापर्यायः । तदनन्तरक्षणे तत्पदार्थे गत्युत्पादे १. स्कन्धात् (समूहात्) अपृथग्भूतः परमाणुवन्निरंशोऽन्तिमावयवः प्रदेशः ।
अविभक्तप्रदेश्यनाद्यनन्तं लोकत्रयव्यापि गतिसहायकस्वभावं द्रव्यं धर्मास्तिकायः । प्रदेशानां समूह 'अस्तिकाय' इत्युच्यते ।
।
२
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org