________________
शि०
धर्मास्तिकाये तस्य पर्यायस्य नाशः । एवं पर्यायनाशे द्रव्यनाश इत्यपि वक्तुं शक्यते - क्षणध्वंसे क्षणविशिष्टध्वंसवत् । एवमधर्मास्तिकाया'दिष्वपि । नाशोऽयं शास्त्रे 'एकत्विकनाश' इत्युच्यते ।
एवं चोपचयेनेदं स्यात् । नाशो द्विविधः स्वाभाविक: प्रायोगिकच । आद्य एकत्विकः समुदयजनितश्च । द्वितीयस्तु समुदयजनित एव । उभयत्र समुदयजनितो द्विविधः समुदयविभागजनितोऽर्थान्तरगमनलक्षणश्च । अनयोराद्यः स्वप्रतियोगिप्रतीतिबाधकः, द्वितीयस्तु न तथेति ।
आ० सुष्ठु धारितं भवता ।
१. स्थितिसहायकं द्रव्यमधर्मास्तिकायः, तदपि लोकत्रयव्यापि अविभक्तप्रदेश्यनाद्यनन्तं च । आकाशास्तिकायः पुनर्लोकालोकव्याप्यविभक्तप्रदेश्यनाद्यनन्तमवकाशदानस्वभावं द्रव्यम् ।
Jain Education International
-
फैल
आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां वितनुते मौग्ध्यं भवेदार्जवम् । पात्रापात्रविचारसारविरहो यच्छत्युदारात्मतां
मातर्लक्ष्मि ! तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥
(उपदेशतरङ्गिणी)
३६
For Private & Personal Use Only
www.jainelibrary.org