________________
1
31Rara:
काव्यविषये जिनसेनाचार्यस्य गम्भीरा विचारा:
एच्. वि. नागराजराव् कर्णाटकदेशोत्पन्नेषु संस्कृतकविषु अग्रगण्यः पूज्यो जिनसेनाचार्यः । अस्य कवेः गुरुः जयधवलायाः कर्ता भट्टारकवीरसेनः । जिनसेनो बाल्य एव वैराग्यशाली भूत्वा ब्रह्मचार्यासीत् । सरस्वती स्वयं तस्य सेवां कुर्वतीवाऽशोभत । बङ्कापुरं जिनसेनाचार्यसेवाया मुख्यं क्षेत्रमासीत् । क्रिस्तशकनवमशतके जिनसेनाचार्यः कर्णाटभुवम् अलञ्चकारेति वक्तुं शक्यं यतो राष्ट्रकूटचक्रवर्ती अमोघवर्षनृपतुङ्गः प्रतिदिनं जिनसेनपादौ प्रणमति स्मेति गुणभद्रवचनप्रामाण्याद् ज्ञायते ।
जिनसेनस्य मुख्या कृतिः - आदिपुराणम् । तस्मिन् प्रथमतीर्थङ्करस्य श्रीवृषभनाथस्य तथा तत्पुत्रस्य भरतचक्रवर्तिनो जीवितकथा मुख्यतया वर्ण्यन्ते । कृतिरपूर्णा । केवलं द्विचत्वारिंशदध्यायाः (अथवा पर्वाणि) तत्र उपलभ्यन्ते । उत्तरो भागः कर्तुः शिष्येण गुणभद्राचार्येण रचितः । ग्रन्थारम्भे सिद्धसेनसमन्तभद्रादीन् पूर्वसूरीन् स्मरति जिनसेनाचार्यः । ततः कवेः काव्यस्य च विषये बहून् विषयान् कोमलया प्रसन्नया वाचा प्रस्तौति ।
या कविता धर्माङ्गत्वं प्रतिपद्यते, सैव श्रेष्ठेति जिनसेनस्य स्पष्टः अभिप्रायः । यदाह -
त एव कवयो लोके त एव च विचक्षणाः । येषां धर्मकथाङ्गत्वं भारती प्रतिपद्यते । धर्मानुबन्धिनी या स्यात् कविता सैव शस्यते ।
शेषा पापास्तवायैव सुप्रयुक्ताऽपि जायते ।। इति 2) कविताप्रपञ्चोऽन्यः, धर्मप्रपञ्चोऽन्यः । सद्यः परनिर्वृतिरेव कवितायाः परं प्रयोजनम् ।
इति पाश्चात्यानां दृष्टिः । Art for art's sake इति ते भावयन्ति । किन्तु कविता का कला वा यदा धर्ममार्गादन्यत्र चलति, तदा सा पापस्य कारणं भवति । धर्मस्य प्रतिष्ठापनायाऽधर्मस्य निवृत्तये च कवितायाः कलायाश्चोपयोगः स्यादिति जिनसेनाचार्यस्य मतम् । 'सुप्रयुक्ताऽपि' इति पदेऽत्रावधानं देयम् । कविना रचितं व्याकरणोचितं , रम्यमाकर्षकं च स्यान्नाम । आलङ्कारिकाः काव्यं रसवदिति
न
.
.
N.
A.
.
A
।
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org