Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 41
________________ आ० आ० शि० कारणाभावादेव कार्यस्य शशशृङ्गस्य नोत्पत्तिः ।। आ० तस्यैव कारणाभावः किमर्थमित्यपि विचार्यताम् । शि० तर्हि किं सत्कार्यवादोऽस्माभिरभ्युपेयः ? सर्वथा न । तत्राऽपि बहवो दोषाः । यथा- कार्यं यदि स्वोत्पत्तेः पूर्वमपि स्यात्तर्हि तदाऽप्युपलभ्येत । न चोपलब्धिः । साङ्ख्याः कथयन्ति यत् कार्यस्य तदानीं तिरोभावाद् नोपलभ्यते तत् । असत्यमेतत्, यतस्तिरोभावस्य व्याख्यैव कर्तुं न शक्यते । तिरोभावस्याऽर्थो यधुपलम्भाभावः तर्हि 'उपलम्भाभावस्य कारणं तिरोभावः, स चोपलम्भाभावरूप' इति को वा शृणुयात् ? व्यञ्जकाद्यभाव एव तिरोभाव इति उच्यते चेत् सत्कार्यवादिनां मते तस्य पश्चादपि सद्भावो न भवेदिति सर्वदा तिरोभाव एव तिष्ठेत् । किञ्च, स्वोत्पत्तेः प्रागपि विद्यमानस्योत्पत्तिरेव नाम किम् ? शि० अस्माभिरसत्कार्यवादोऽपि नाऽनुमन्यते, सत्कार्यवादोऽप्यस्मभ्यं न रोचते, तर्हि किमार्हतानामस्माकं सम्मतम् ? कथञ्चित् सदसत्कार्यवादः । अवधार्यतामेतत् – कार्यस्यांऽशद्वयं भवति - एको द्रव्यमपरः पर्यायः । कार्यं द्रव्यरूपेण स्वोत्पत्तेः पूर्वमपि सद् भवति, तद्रूपेण तस्योपलम्भोऽपि भवति । पर्यायरूपेण च तदसदेव, तद्रूपेण तदुपलब्धिरपि न । पर्यायत्वेनाऽविद्यमानत्वादेव तस्योत्पत्तिरपि सम्भवा । शि० कृपया दृष्टान्तेन योजनां दर्शयतु । श्रूयताम् । घटरूपकार्येऽशद्वयम् - एको मृत्तिकाद्रव्यम्, अपरश्च जलधारणादि कर्तुं क्षमः तद्योग्यधर्मयुतो मृदो विशिष्टाकारः (= पर्यायः) । मृत्तिकारूपेण घटः पूर्वमेवाऽऽसीत्, नाऽऽसीच्च तथाविधविशिष्टा वस्थारूपेण । तद्रूपेण तस्य कुम्भकारादिप्रयत्नेनोत्पत्तिः । शि० परमाणुषु सदेव स्थूलत्वं त्र्यणुके उत्पद्यते इत्यत्राऽपि किमीदृश्येव योजना? आ० कः संशयोऽत्र ? स्याद्वादसिद्धान्ताः सार्वत्रिकाः । प्रकृते इयं प्रक्रिया१. 'कार्यं कारणकालेऽपि विद्यमानमेव भवति' इति मतं सत्कार्यवादः । आ० COOK आ० ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126