Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
.
.
N
4
T.
4.
.
.
N
4
.
.
4
P
.
R.
प्र
.
.
TH ध्वनिरिति वा प्रशंसन्तु नाम । यदि तज्जनान् अधर्मे प्रवर्तयति, तन्न ग्राह्यम् - 11 इति जिनसेनाचार्यस्य स्पष्टोऽभिप्रायः । वदति सः -
केचिन्मिथ्यादृशः काव्यं ग्रनन्ति श्रुतिपेशलम् ।
तत्त्वधर्मानुबन्धित्वान्न सतां प्रीणनक्षमम् ॥ इति । काव्यप्रकाशादिषु ग्रन्थेषु उत्तमकाव्यस्योदाहरणत्वेन नीचविचारप्रचोदकानि पद्यानि उदाहियन्ते । यथा -
निश्शेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि ! दूति ! बान्धवजनस्याऽज्ञातपीडाशमे
वापी स्नातुमितो गताऽसि न पुनस्तस्याऽधमस्याऽन्तिकम् ।।
कस्याश्रित् कुटिलायाः कुलटायाः कथाऽत्र कथिता । दूतीत्वेन गता रमणेनोपभुक्तेत्यादिरत्र ध्वनिरिति काव्यमिदं श्रेष्ठं ध्वनेरुदाहरणमिति मम्मटो ब्रूते । एतादृशस्य विषयस्य ज्ञानेन किं प्रयोजनम् ? काव्यं किं सिषाधयिषति ? इति प्रश्नः उद्भवति । तत्कालिकी क्षणिकप्रीतिरेव परमं प्रयोजनमिति नोचितम् ।।
कवित्वं यः प्रेप्सति, तेन लोकशास्त्रव्युत्पत्तिः प्रथमं सम्पादनीया। अन्यथा विदुषां हास्यस्यास्पदं भवति काव्यम् । तदाह जिनसेनाचार्यः -
अव्युत्पन्नतराः केचित् कवित्वाय कृतोद्यमाः ।
प्रयान्ति हास्यतां लोके मूका इव विवक्षवः ॥
अस्मिन् लोके द्रव्यचोरा इव काव्यचोरा अपि भवन्ति । स्वयं शब्दान् ।) अर्थान् वा संघटयितुं ते न प्रभवन्ति । पूर्वकविवरेण्यानां शब्दार्थान् चोरयित्वा स्वकीयमिव तत्प्रदर्शयन्ति । तादृशान् हीनान् उद्दिश्य ब्रवीति जिनसेनाचार्य इत्थम् -
केचिदन्यवचोलेशान् आदाय कविमानिनः ।
छायामारोपयन्त्यन्यां वस्त्रेष्विव वणिग्ब्रुवाः ॥
आत्मनः कवीन् मन्यन्ते इति कविमानिनः । वस्तुतो न कवयः । तेषामुपमानं वणिग्ब्रुवाः । नीचा वणिजो वणिग्ब्रुवाः पुनरपि वदति जिनसेनाचार्य: -
केचिदन्यकृतैरथैः शब्दैश्च परिवर्तितैः । प्रसारयन्ति काव्यार्थान् प्रतिशिष्टयेव वाणिजाः ।।
.2.4.2.pa
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126