Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
म
.
.
.N..
.
.
.
.
.
__ इति । अत्र भामहवाक्यानां प्रतिध्वनि शृण्म इति अस्माकं प्रतिभाति । यदाह भामहः स्वीये काव्यालङ्कारे -
रूपकादिमलङ्कारं बाह्यमाचक्षते परे । सुपां तिङ च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् । तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः ॥ इति ।
सर्गबन्धो महाकाव्यमिति भामहदण्डिनौ ब्रूतः । अष्टादशवर्णनादिकं च तल्लक्षणे अन्तर्भाव्यते बहुभिः । जिनसेनाचार्यस्तु महाकाव्यमित्थं लक्षयति -
महापुराणसम्बन्धि महानायकगोचरम् ।।
त्रिवर्गफलसन्दर्भ महाकाव्यं तदिष्यते ॥ इति । एतेन महाकाव्यस्य वस्तु लोकप्रसिद्धं भवेत्, तत्र नायको महत्त्ववान् स्यात्, तत्र धर्मार्थकामानां प्रतिपादनं भवेदिति जिनसेनाचार्यस्य भावः । त्रिवर्गो धर्मकामार्थैः चतुर्वर्गः समोक्षकैः इत्यमरसिंहः । मोक्षरूपं चतुर्थं पुरुषार्थं कस्मात् परित्यक्तवान् आचार्यः ? अन्ये तु चतुर्वर्गफलोपेतं चतुरोदात्तनायकम् इति वर्णयन्ति । मोक्षः शास्त्रमात्रप्रतिपाद्य इति अभिप्रायो वा ?
सर्वेषु काव्येषु गुणा दोषाश्च भवन्ति । तत्र दुर्जनाः दोषान् गवेषयन्ति । सज्जना गुणान् आददते । तद्विषये सोपहासं वदत्येवमाचार्यः -
यतो गुणधनाः सन्तो दुर्जना दोषवित्तकाः ।
स्वं धनं गृह्णतां तेषां कः प्रत्यर्थी बुधो जनः ।। दोषमन्विष्य गृह्णन्तो दुर्जनाः कवेरुपकारमेव कुर्वन्ति इति सचमत्कारमाह -
दोषान् गृह्णन्तु वा कामं गुणास्तिष्ठन्तु नः स्फुटम् ।
गृहीतदोषं यत्काव्यं जायते तद्धि पुष्कलम् ॥ इति । सर्वैर्जनैः कविभिर्भवितव्यमिति राजाज्ञा नास्ति । यस्य प्रतिभा वर्तते स काव्यं रचयतु । प्रतिभाभावे काव्यं रचयितुं प्रसभं न यतनीयम् । तदाह -
आप्तपाशमतान्यन्ये कवयः पोषयन्त्यलम् ।
कुकवित्वाद्वरं तेषामकवित्वमुपासितम् ।। एतद्विषये भामहवचनम् -
.
।
.
p
.
N.
P
.
.
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126