SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ म . . .N.. . . . . . __ इति । अत्र भामहवाक्यानां प्रतिध्वनि शृण्म इति अस्माकं प्रतिभाति । यदाह भामहः स्वीये काव्यालङ्कारे - रूपकादिमलङ्कारं बाह्यमाचक्षते परे । सुपां तिङ च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् । तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी । शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः ॥ इति । सर्गबन्धो महाकाव्यमिति भामहदण्डिनौ ब्रूतः । अष्टादशवर्णनादिकं च तल्लक्षणे अन्तर्भाव्यते बहुभिः । जिनसेनाचार्यस्तु महाकाव्यमित्थं लक्षयति - महापुराणसम्बन्धि महानायकगोचरम् ।। त्रिवर्गफलसन्दर्भ महाकाव्यं तदिष्यते ॥ इति । एतेन महाकाव्यस्य वस्तु लोकप्रसिद्धं भवेत्, तत्र नायको महत्त्ववान् स्यात्, तत्र धर्मार्थकामानां प्रतिपादनं भवेदिति जिनसेनाचार्यस्य भावः । त्रिवर्गो धर्मकामार्थैः चतुर्वर्गः समोक्षकैः इत्यमरसिंहः । मोक्षरूपं चतुर्थं पुरुषार्थं कस्मात् परित्यक्तवान् आचार्यः ? अन्ये तु चतुर्वर्गफलोपेतं चतुरोदात्तनायकम् इति वर्णयन्ति । मोक्षः शास्त्रमात्रप्रतिपाद्य इति अभिप्रायो वा ? सर्वेषु काव्येषु गुणा दोषाश्च भवन्ति । तत्र दुर्जनाः दोषान् गवेषयन्ति । सज्जना गुणान् आददते । तद्विषये सोपहासं वदत्येवमाचार्यः - यतो गुणधनाः सन्तो दुर्जना दोषवित्तकाः । स्वं धनं गृह्णतां तेषां कः प्रत्यर्थी बुधो जनः ।। दोषमन्विष्य गृह्णन्तो दुर्जनाः कवेरुपकारमेव कुर्वन्ति इति सचमत्कारमाह - दोषान् गृह्णन्तु वा कामं गुणास्तिष्ठन्तु नः स्फुटम् । गृहीतदोषं यत्काव्यं जायते तद्धि पुष्कलम् ॥ इति । सर्वैर्जनैः कविभिर्भवितव्यमिति राजाज्ञा नास्ति । यस्य प्रतिभा वर्तते स काव्यं रचयतु । प्रतिभाभावे काव्यं रचयितुं प्रसभं न यतनीयम् । तदाह - आप्तपाशमतान्यन्ये कवयः पोषयन्त्यलम् । कुकवित्वाद्वरं तेषामकवित्वमुपासितम् ।। एतद्विषये भामहवचनम् - . । . p . N. P . . ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy