________________
।
.
.
.
.
A
.
2
HAJAVAJAVAJAVAJAVANATAVARACHAR
अर्थचोराः शब्दचोरा उभयचोरा इति बहुधा काव्यचोरा विजृम्भन्ते । प्रायो बाणभट्टस्य पद्यं जिनसेनाचार्येण मनसि निहितमिति भावयामः । 17 हर्षचरितस्याऽऽदौ बाणभट्टेनोक्तम् -
अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः ।
अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यते ॥ इति । केचन कवयः शब्दप्रयोगचतुराः, किन्तु अर्थगौरवं तेषु विरलम् । अन्ये तु सचमत्कारान् अर्थान् प्रतिपादयन्ति, किन्तु शब्दप्रौढिस्तेषु न दृश्यते । एतादृशान् अशक्तान् कवीन् उपदिश्य जिनसेनाचार्यो वक्ति -
केचिद्वर्णोज्ज्वलां वाणी रचयन्त्यर्थदुर्बलाम् । जातुषी कण्ठिकेवासौ छायामृच्छति नोच्छिखाम् ॥ केचिदर्थमपि प्राप्य तद्योग्यपदयोजनैः ।।
न सतां प्रीणनायाऽलं लुब्धा लब्धश्रियो यथा । जतुनिर्मितमाभरणमिव अर्थदुर्बलस्य शब्दवैभवम् । लुब्धेन लब्धा सम्पदिव शब्दप्राभवशून्यस्य कविता । लुब्धो धनवान् अपि न कस्मैचिद् ददाति । तथा शब्दमुग्धः कविः स्निग्धमप्यर्थं सहृदयाय दातुं न शक्त इत्यभिप्रायः । एतद्विषये भारवेः पद्यं स्मृतिपथमायाति -
स्तुवन्ति गुर्वीमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः । इति स्थितायां प्रतिपूरुष रुचौ
सुदुर्लभाः सर्वमनोहरा गिरः ॥ इति ।
किं नाम काव्यमिति प्रश्नः । तस्योत्तरं बहवो बहुधा कल्पयन्ति । र' जिनसेनाचार्याः तत्स्वरूपमित्थं कथयन्ति -
कवेर्भावोऽथवा कर्म काव्यं तज्जैनिरुच्यते ।।
तत्प्रतीतार्थमग्राम्यं सालङ्कारमनाकुलम् ॥ इति । अलङ्कारो नाम कः ? तत्राऽऽहाऽऽचार्यः -
केचिदर्थस्य सौन्दर्यमपरे पदसौष्ठवम् । वाचामलङ्घियां प्राहुस्तद्वयं नो मतं मतम् ।।
.
.
का
1
2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org