Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 11
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [२-५ स चायम् -यो वृषो भवति स कथं नाम सिंहरूपमासनमाश्रयति प्रत्युत तद्भीतत्वात्स कापि ततः पलाय्य गच्छेदिति । विरोधपरिहारस्तु प्रागेवोक्त इति ॥ १ अथ श्रीशान्तिनाथं षोडशतीर्थकरं नमस्कुर्वन्नाह - श्रीशान्ति शान्तिकर्तारं भर्तारमनुयायिनाम् । यत्प्रत्यासत्तितो भेजे कुरङ्गोऽपि सुरगताम् ॥२ व्याख्या-श्रीशान्ति शान्तियोगात्तदात्मकत्वात्तत्कर्तृत्वाच्चायं शान्तिः । तथा गर्भस्थेऽस्मिन् पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिस्तं वन्द इति क्रियाध्याहारः कार्यः । किम्भूतं ? शान्तिकर्तारं शान्तिविधायकम् । पुनः किम्भूतं ? अनुयायिनां सेवकानां भर्तारं तत्कामितार्थसम्पादकत्वेन पोषकम् । 'डु/गक पोषणे च' चाद्धारणे । यत्प्रत्यासत्तितो यस्य भगवतः प्रत्यासत्ति कट्यम् । ततः पञ्चम्यास्तसिल । कुरङ्गो हरिणोऽपि सुरङ्गतां शोभनवर्णतां भेजे शिश्राय । अपिशब्दो विरोधार्थः । यः कुरङ्गः कुत्सितलौहिल्यादिरङ्गो भवति स सुरङ्गः शोभनरङ्गः कथं स्यात् । 'रङ्गः स्यान्नत्तयुद्धवोः, रागे' इत्यनेकार्थः । रागो लौहित्यादिस्तत्परिहारस्तु प्रागेवादर्शि ॥२ अथ द्वाविंशं जिनं नमस्कृतिपथे कुर्वन्नाह - श्रीयादवकुलोत्तंसं नौमि नेमि निरञ्जनम् । यदाश्रयेण सञ्जातः शङ्खोऽद्यापि निरञ्जनः॥३ व्याख्या-एवंविधं नेमि धर्मचक्रस्य नेमिवन्नेमिस्तं नौमि स्तवीमि । किम्भूतं ? श्रीयादवकुलोत्तंसं श्रीयादवकुलस्य श्रीयादववंशस्योत्तंस इव शेखर इव विभूषत्वात् श्रीयादवकुलोत्तंसस्तम् । पुनः किम्भूतं! निरञ्जनं निर्गतं रञ्जनं रागादिलेपो यस्मात्तं निरञ्जनम् । यद्वाऽञ्जनान्यहङ्कारस्थानानि जातिलाभादीनि निर्गतानि यस्मात् स निरञ्जनस्तम् । रंजी रागे' भावे ल्युट् । यदाश्रयेण यस्य भगवत आश्रयेणाङ्गीकरणेनाद्याप्येतत्कालेऽपि शङ्खः कम्बुर्निरञ्जनो लौहित्यादिरागवद्व्यरञ्जनायोग्यः सञ्जातः । भगवतो निरञ्जनत्वात् , 'संखो इव निरंजणो' इति वचनात् । तदाश्रयाच्छकोऽपि यदि निरञ्जनः स्यात्तदा किमत्र 20 चित्रम् । भक्ता हि खप्रभुधर्मानुगामिनो भवन्तीति ॥ ३ अथ कलिकालेऽपि जाग्रत्प्रभावं त्रयोविंशं तीर्थकरं नमस्कुर्वन्नाह - पार्श्वः पार्थ्याख्ययक्षेण कृतरक्षेण सेविनाम् । संस्तुतः संस्तुतेर्यस्य नागो नागेन्द्रतां ययौ ॥४ व्याख्या-अग्रतो यच्छब्दावेक्षणादत्र तच्छब्द आकृष्यते । स पार्श्वः स्पृशति ज्ञानेन सर्वभावानिति पार्श्वः । तथा 25 गर्भस्थे जनन्या निशि शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तात् पार्श्वः । नम्य इति क्रियाऽध्याहियते । किम्भूतः? सेविनां सेवाकरणशीलानां कृतरक्षेण कृता रक्षा प्रतिपालनमुपद्रवादिपरिहारेण येनेति कृतरक्षस्तेन पाख्ययक्षेण वैयावृत्त्यकरपार्थाभिधानदेवविशेषेण संस्तुतः प्रणुतः । यस्य पार्श्वस्य संस्तुतेः परिचयात् परमेष्ठिमहामन्त्रप्रदानलक्षणान्नागः सर्पो नागेन्द्रतां धरणेन्द्रत्वं ययौ प्राप ॥ ४ अथ चरमजिनस्य नमस्यतां कथयन्नाह शासनाधीश्वरो वीरः समीर: पापपांसुषु । सेव्यो यत्सेवनाजातः सिंहोऽप्यष्टापदासनः॥५ व्याख्या-स वीरो विशेषेणेरयति प्रेरयति कर्माणीति वीरः सेव्यो भजनीयः। किम्भूतः? शासनाधीश्वरः शासनस्य जिनशासनस्याधीश्वरोऽधिकप्रभुः । पुनः किम्भूतः! पापपांसुषु एनोधूलिषु समीरो वायुः । यथा समीरेण पांसुर्दूरीक्रियते तथा येन पापं दूरीचके। यत्सेवनात् - यस्य भगवतः सेवनाद्भजनात् सिंहोऽपि हर्यक्षोऽपि लाञ्छनत्वादष्टापदासनः स्वर्णासनो Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 122