________________
श्री सूयगबग सूत्र णत्थि जीवा अजीवा वा, णेवं सन्नं निवेसए । अस्थि जीवा अजीवा वा, एवं सन्नं निवसए ।।
-श्री सूयगडाग सूत्र २ । ५। १२, १३ ।। टीका-'लोक, चतुर्दशरज्ज्वात्मको धर्मावर्माकाशादिपञ्चा स्तिकायात्मको वा स नारतीत्येवं सज्ञां नो निवेशयेत् । तथा. ऽऽकाशास्तिकायमात्रकस्त्वलोक स च न विद्यते एवेत्वेव सज्ञां नो निवेशयेत् । तदभावप्रतिपत्तिनिबंधनं त्विदं, तद्यथा-प्रतिभास मानं वात्ववयवद्वारेण वा प्रतिभासेतावयविद्वारेण वा १, तत्र न तावदवयव द्वारेण प्रतिभासनमुत्पद्यते, निरशपरमाणूनां प्रति. भासनासंभवात्, सर्वारातीयभागस्य च परमाएवात्मकत्वात्तेषां च छमस्थविज्ञानेन द्रष्टुमशक्यत्वात् , तथा चोक्तम्-"यावदृश्य परस्तावद्भाग. स च न दृश्यते । निरंशस्य च भागन्य, नास्ति छद्मस्थदर्शनम्" ॥ १॥ इत्यादि नाप्यवयविद्वारेण, विकल्प्यमानस्यवयविन एवाभावात्, तथाहि असौ स्वावयवेषु प्रत्येक सामस्त्येन वा वर्तेत ? अशाशिभावेन वा न सामस्त्येना. वयविवहुत्वप्रसङ्गात् , नाप्यंशेन पूर्वविकल्पानतिक्रमणानवस्था. प्रसङ्गात् , तस्माद्विचार्यमाणं न कथश्चिद्वस्त्वात्मभावं लभते, तत. सर्वमेवतन्मायास्वप्नेन्द्रजालमरुमरीचिकाविज्ञानसदृश, तथा चोक्त-'यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा। यद्यते (तत्) स्वयमर्थेभ्यो, रोचन्ते (ते) तत्र के वयम् १ ॥ १॥” इत्यादि तदेवं वस्त्वभावे तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञा