Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 279
________________ भिर्मासैः पूर्णेरि 'ति नवसु मासेषु पूर्णेष्वित्यर्थः, ' इहैव '-अस्मिन्नेव संसारे, 'सूतिम् लभेत् '-प्रजननं लभते, परस्मैपदं |चिन्त्यम् , 'नागि'ति-नवमासात् प्राक सूर्ति न लभत इत्यर्थः, उदाहरणान्तरमाह-तथेत्यादिना ' तथा ' शब्दः 'पुनः' | शब्दश्च समुच्चये, 'काश्चन'-कापि, 'मन्त्रविद्या'-मन्त्रसम्बन्धिन्यो विद्याः, 'लक्षेणजापैः '-लक्षजापात् , ' अथे 'ति यद्वेत्यर्थः, 'कौटिजापैः '-कोटिजापात् , 'फलन्ति'-फलदायिन्यो भवन्ति ॥ ३॥ मूलम्-वनस्पतिर्वा समये स्वकीये, सर्वः फलत्येष न चाऽऽत्मशैध्यात् । सेवाऽपि राजत्रिदशेश्वरादि-सम्बन्धिनी वा फलतीह काले ॥४॥ टीका-उदाहरणान्तरमाह-वनस्पतिरित्यादिना 'वा'-अथवा, 'एष:'-प्रसिद्धः, 'सर्व:'-सकला, 'वनस्पतिः'-वृक्षः, पुष्पगन्तरैव फलशाली वा वृक्षः, 'स्वकीये समये'-निजकाले, स्वफलकाल इत्यर्थः, 'फलति'-फलयुक्तो भवति, 'न चाऽऽत्मशैभ्यादिति '-आत्मनः शीघ्रत्वेन स न फलतीत्यर्थः, उदाहरणान्तरमाह-सेवाऽपीत्यादिना 'वा'-अथवा, 'राजत्रिदशेश्वरादिसम्बन्धिनी'-नृपसम्बन्धिनी इन्द्रादिसम्बन्धिनी च, 'सेवापि'-सेवनमपि, 'इह'-अस्मिन् संसारे, 'काले'समये, स्वसमय एवेत्यर्थः, ' फलति'-फलदायिनी भवति ॥ ४ ॥ मूलम्-संसाध्यमानोऽत्र रसोऽपि काले, सिद्धः फलायाऽस्ति न साध्यमानः । तथाऽन्यदेशव्यवहारकर्म, तत्कालपूर्ती फलति प्रकामम् ॥५॥ १. पारदोऽपि । NARAS

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328