Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 309
________________ कति मायेति गुणेति देवं, मिथ्येति चाऽज्ञानमितीतिशब्दैः। सद्योगिनोऽमूनिगदन्ति तज्ज्ञा, भ्रमं ह्यनेनैव निबद्ध आत्मा ॥ २९॥ टीका-मुक्तिपथमाह-मुक्तिमित्यादिना 'क'-विवक्षिते, 'मुक्ति समिच्छु:'-मोक्षाभिलाषी, 'मनुजः'-जनः, 'पुरस्तात् '-पूर्व, 'चित्ते'-मनसि, ' एवं '-वक्ष्यमाणम् , 'विचारं करोतु, '-विमर्श विदधातु, यत् 'ही' ति निश्चये, चरणपूर्ती वा, 'अयं'-पूर्वोक्तः, प्रसिद्धो वा, 'आत्मा'-जीवः, 'योगिभिः '-योगाभ्यासकर्तृभिः, 'शुद्धः'-निर्मलः, इत्युच्यते, द्वौ चशब्दौ चरणपूर्ती, 'बुद्धः '-ज्ञानी इत्युच्यते, ' मुक्तः '-दुःखरहितः इत्युच्यते, 'च'-पुनः, 'एषः'पूर्वोक्त आत्मा, 'निरञ्जनः'-निर्लेप इत्युच्यते, 'तर्हि '-तदा, 'तु' शब्दश्वरणपूत्तौं, 'मुक्तः'-दुःखरहितः सन् , 'अयम्'आत्मा, 'केन'-साधनेन, 'बद्धः'-बन्धन प्राप्तो भवति, तथा 'एषः'-आत्मा, 'कस्मात् बध्यते ?'-किं सकाशात् बन्धनं प्राप्यते ? ' इति'-अस्मिन् विचारे सति एवम् , 'ज्ञातं '-विदितम् भवति, यत् 'भ्रमेण '-भ्रान्त्या, बद्धो भवति, 'इति' शब्दो वाक्यपरिसमाप्तौ, 'यम्'-भ्रमम् , ' आद्याः'-पूर्वे महात्मानः, 'कर्मेति '-कर्मनाम्ना, सर्वत्रेतिशब्देनैव विभक्त्यर्थोद्योतः, 'मोहेति'-मोहनाम्ना, 'भ्रमेति'-भ्रमनाम्ना, अविद्येति'-अविद्यानाम्ना, 'कति'-कर्तृनाम्ना, 'गुणेति'-गुणनाम्ना, 'देवमिति '-देवनाम्ना, 'मिथ्येति'-मिथ्यानाम्ना, 'च'-पुनः, 'अज्ञानमिति'-अज्ञाननाम्ना, 'इति शब्दैः'-इत्यादि शब्दैः, 'ऊचुः'-कथयन्ति स्म, अतः ‘तज्ज्ञाः'-तत्त्वज्ञानिनः, 'सद्योगिनः'-श्रेष्ठयोगि १. शब्दान् ।

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328