Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 310
________________ जैन तत्त्वसार टीकायाम् ॥ १४७ ॥ 4 जनाः, अमून् ' - पूर्वोक्तानेव शब्दान्, कर्मादीनेवेत्यर्थः, ' भ्रमं निगदन्ति ' - भ्रमनाम्ना कथयन्ति, ' ही 'ति निश्वये, चरणपूर्ती वा 'अनेनैव 'पूर्वोक्तेन भ्रमेणैव, 'आत्मा'- जीवः, ' निबद्धः ' - बद्धः, बन्धनं प्राप्तो भवति ।। २७-२९ ॥ मूलम् — भ्रमोऽत्र मिथ्यानिजकल्पनोत्थितो, येनैव बद्धो नलिनीशुको यथा । बद्धः पुनर्मर्कटकोऽपि तद्वत्, तथैष आत्मा भ्रमतो निबद्धः ॥ ३० ॥ १. भ्रमोऽत्रेति मिथ्या असत्या या निजकल्पना स्वमानसिक विकारस्तत उत्थित उत्पन्नो य एवंविधो यो भ्रमो मिथ्याज्ञानमनात्मीयवस्तुन्यात्मीयवस्त्ववगमः स्त्रीपुत्रमित्र मातापितृद्रव्य शरीरादिसह वर्त्तिवस्तुषु अननुगामित्वेनास्वीयत्वान्ममेदमिति मिथ्याज्ञानं भ्रमः तेन संसारे शरीरे च मनोरमवस्तुषु रक्तमनोनिवर्त्तनं संसारे शरीरे च वर्त्तमाने दुर्वस्तुनि दुष्टमनोनिवृत्तिरिति वीतरागत्वेन रक्तद्विष्टमनस्त्वानापादनं सम्यग्ज्ञानं तद्विपरीतं ज्ञानं मिथ्याज्ञानं स एव भ्रमः अतस्मिंस्तद्ग्रहो भ्रमः यथा शुकग्रहणार्थं वृक्षोपरि चक्रं स्थापयन्ति तच्चक्रकर्णिकायां च कारवेल्लकं स्थापयन्ति तत्र च ममेदं भक्ष्यमिति मिथ्याज्ञानेन भ्रमेण शुक आगत्य तिष्ठति तस्य स्थानतस्तच्चक्रं स्वयमेव च भ्रमति, तद्भ्रमणात्तत्रस्थः शुकः केनाऽप्यगृहीतोऽपि भ्रमान्मन्यते यदहं केनाऽपि गृहीतो वा पाशे निपातितः । ततश्चक्रेण सह स्वयमपि भ्राम्यंस्तश्चक्रं स्वष्टमिवाऽऽगृह्य स्वमबद्धमपि बद्धं मन्यमानः चूचूत्कारान् करोति । तद्वेलायामशङ्कितो यदि उड्डीय याति तदा मुक्तः स्यात्, अन्यथा भ्रमेणाऽऽबद्धोऽपि तद्ग्राह केण गृहीत्वा बध्यते इत्येवं नलिनीशुको यथा भ्रमेणैवं बध्यते पुनर्मर्कटकोऽप्यात्मानं भ्रमेणैव बन्धयति । यथा मर्कटग्राहकाः चणकभृतपात्रं स्थापयन्ति, तत्राSSहारार्थी मर्कटो करं क्षिप्त्वा चणकमुष्टिं बद्ध्वा तादृशमेव करं कर्षति तदा तु समुष्टिः करो न निर्गच्छति तदाऽयं जानाति अहमन्तरा केनचिद् बद्धः तदाऽबद्धोऽपि खबद्धमिति मन्यमानः चीचीत्कारान्कुर्वन् तदुबन्धकेन स बध्यते यदि तदा स्वबद्धां मुष्टिं छोटयित्वा याति तदाऽबद्धो भवति, परमयमपि स्वकीयमिध्याभ्रमात् स्वं बन्धयति । एवमयमात्माऽपि अस्वीये विंशतितमोsधिकारः ॥ १४७ ॥

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328