Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
अथवा, 'भ्रमसम्भ्रमाभ्याम् '-अतिसचेगवशात् , ' यन्यूनम् '-न्यूनतायुक्तम् , 'अवादि '-कथितम् , यच्च 'अन्यूनम्'अधिकम् अवादि, 'तत्'-पूर्वोक्तम् , 'मे'-मम, 'दुष्कृतम्'-दुष्कर्म, 'वस्तुतः'-तत्त्वतः, 'मृषाऽस्तु-मिथ्या भवेत् ॥११॥ मूलम्-मया जिनाधीशवचस्सु तन्वता, श्रद्धानमेवं य उपार्जि सज्जनाः!।
धर्मस्तदेतेन निरस्तकर्मा, निर्मातशर्माऽस्तु जनः समस्तः ॥ १२ ॥ टीका-ग्रन्थनिर्माणप्रयासजन्यधर्मफलमाह-मयेत्यादिना 'सजनाः!'-हे सत्पुरुषाः, 'जिनाधीशवचस्सु'जिनेश्वरवचनेषु, 'एवम् '-उक्तप्रकारेण, 'श्रद्धानम् '-श्रद्धां, 'वितन्वता'-कुर्वता, मया यो 'धर्म उपार्जि'-पुण्यमर्जितम्, तच्छब्दो विनिश्चये, 'एतेन'-उपार्जितेन धर्मेण, 'समस्तो जनः '-सकलोऽपि पुरुषः, 'निरस्तकर्मा'-कर्मरहितः, तथा निर्मातशर्मा '-प्राप्तसौख्यः, ' अस्तु'-भवेत् ॥ १२ ॥ - मूलम्-वरतरखरतरगणधरयुगवर-जिनराजसूरिसाम्राज्ये ।
तत्पट्टाचार्यश्रीजिन-सागरसूरिषु महत्सु ॥ १३ ॥ अमरसरसि वरनगरे, श्रीशीतलनाथलब्धिसान्निध्यात् ।
ग्रन्थोऽग्रन्थि समर्थः, सुविदेऽयं सूरचन्द्रेण ॥ १४ ॥ टीका-महात्मगौरवनिदर्शनपूर्वकम् ग्रन्थरचनस्थानमाह-चरतरेत्यादिना 'वरतरखरतरगणधरयुगवरजिनराजसरि१. गत । २. सिद्ध ।
Loading... Page Navigation 1 ... 321 322 323 324 325 326 327 328