Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 322
________________ मूलम्-आनन्दनास्तिक्यगुणप्रसास्तिकनास्तिकानाम् निर्माणरूप इतिभा जैनतत्वसार कायाम् विंशतितमोऽधिकार ॥१५३॥ +9- NA AAAAAAA मलम्-आनन्दनायास्तिकनास्तिकानां, ममोद्यमोऽयं सफलोऽस्त सर्वः। आयेषु चाऽऽस्तिक्यगुणप्रसारणा-दन्त्येषु नास्तिक्यगुणापसारणात् ॥१०॥ टीका-ग्रन्थफलविषयमाह-आनन्देत्यादिना 'आस्तिकनास्तिकानाम्-आस्तिकमतानुयायिनास्तिकमतानुयायिनाम् जनानाम् , 'आनन्दनाय'-प्रमोदाय, 'मम'-मत्सम्बन्धि, 'अयम्'-एषः, ग्रन्थनिर्माणरूप इतिभावः, 'सर्वः'-सकला, 'उद्यमः'-उद्योगः, 'सफलोऽस्तु'-फलयुक्तः स्यात् , आस्तिकनास्तिकप्रमोदोत्पादनायाऽयं ममोद्योगः पर्याप्तः स्यादितिमावः, 'परस्परम् '-विभिन्नयोरास्तिकनास्तिकयोरयमुद्योगः कथमानन्दनाय भवितुम् शक्नोतीति शङ्कामपनेतुमाहआद्येष्वित्यादि आयेषु'-प्रथमेषु, आस्तिकेष्वित्यर्थः, 'च' शब्दश्चरणपूत्तौं, 'आस्तिक्यगुणप्रसारणात् '-आस्तिक सम्बन्धिगुणानाम् विस्तारात् ममोद्यमः सफलोऽस्तु, 'अन्त्येषु'-अन्तिमेषु, नास्तिकेष्वितिभावः, नास्तिक्यगुणाप्रसारणात् 8| नास्तिकसम्बन्धिगुणानामपनोदात् ममोद्यमः सफलोऽस्तु ॥ १०॥ मूलम्-चिरं विचारं परिचिन्वताऽमुं, यन्यूनमन्यूनमवादि वादतः। कदाग्रहाद्वा भ्रमसम्भ्रमाभ्याम् , तन्मे मृषा दुष्कृतमस्तु वस्तुतः॥ ११॥ टीका-न्यूनाधिकप्रवचने मिथ्यादुष्कृतमाह-चिरमित्यादिना 'चिरम्'-चिरकालपर्यन्तम् , 'अमुं'-पूर्वोक्तम् , 'विचारम्'-विमर्शम् , 'परिचिन्वता'-संगृहणता मया, 'वादतः'-वादवशात् , 'कदाग्रहात्'-कुत्सितहठवशात् , 'वा' १. आस्तिकेषु । २. नास्तिकेषु । ३. मिथ्या । ४. तत्त्वतः । ॥॥१५३।।

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328