Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 328
________________ जैन तत्त्वसार टीकायाम् युक्ता या पूर्णिमा तया च युक्तो यो जो बुधस्तस्मिन् , आश्विनमासस्य पूर्णिमायां तिथौ बुधवारे चेत्यर्थः, 'विजये योगे'-विजयनामके योगे, 'वाचकसूरचन्द्रविबुधः'-मूरचन्द्रनामा वाचकः-पण्डितोऽहं, 'वरपबवल्लभगणेः साहाय्यात्'श्रेष्ठस्य पलवल्लभनामकस्य गणेः सहायेन, 'एतं'-पूर्वोक्तम्, 'ग्रन्थम् '-सन्दर्भ, 'आदरात् '-आदरपूर्वकम्, 'पूर्ण व्यधाम्'-पूर्ण कृतवान् , कथम्भूतम् ग्रन्थम् ? 'अमलम्'-निर्मलम् , सत्सिद्धान्तप्ररूपणेन विगतदोषमित्यर्थः, पुनः कथम्भूतम् ? 'प्रश्नोत्तरालकृतम्'-प्रश्न-प्रतिवचनक्रमयोजनया शोभितम्, कस्मै प्रयोजनायेत्याह-अर्हदित्यादि 'अर्हत्प्रसादश्रियै '-अर्हतः प्रसादरूपा या श्रीः-सम्पत् तस्यै, अर्हत्प्रसन्नतारूपलक्ष्मीप्राप्तय इतिभावः // 23 // एकविंशतितमोऽधिकार // 156 // SARANAS सूरचन्दमनःस्थिरीकारे ग्रन्थग्रथनोत्पन्नपुण्यजनतासमर्पणस्वीयगच्छगच्छनायकसम्प्रदायगुरुनाम स्वकीयगुरुभ्रात्रादिनामकीर्तनोक्तिलेश एकविंशतितमोऽधिकारः सम्पूर्णः॥ जैनतत्त्वसारग्रन्थः सटीकः सम्पूर्णः॥ ग्रन्थमानं 4100 1. पदैकदेशे पदसमुदायोपचारात् इति.सूर इति सूरनाडी-सूर्यनाडीत्यर्थः, चन्द्र इति चन्द्रनाडीत्यर्थः, मन इति सुषुम्णानाडीस. चनं यदन्तर्गतं मनः स्थिरीस्यात् / तथा च हटप्रदीपिका / मारुते मध्यसञ्चारे मनःस्थैर्य प्रजायत इति / ततो मनःस्थिरीकार इति सुषुम्णोच्यते / आसां नाडीनां स्थिरीकारो यस्मिन्नित्येकस्थिरीकारशब्दालापाद्यथेष्टार्थप्राप्तिः पक्षे ग्रन्थकर्तृनामसूचनमिति ध्येयम् // // 156 //

Loading...

Page Navigation
1 ... 326 327 328