Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 326
________________ एक. तत्त्वसार टीकायाम् विंशतितमोऽधिकार ॥१५५॥ RECORN उदयवाचकनाम्ना च प्रसिद्धाः सूरयः, 'सुरभिततरुमञ्जरीतुल्याः समभूवन् '-शोभनगन्धयुक्तवृक्षवल्लरीसमाना अभवन् , 'तेषु'-अभिनवदलोत्पन्नकेसरेषु, 'श्रीवीरकलशसुगुरवः'-श्रीवीरकलशनामानः श्रेष्ठगुरवः, 'फलसमानाः अभुः'-फलतुल्या अद्योतन्त, कथम्भूताः श्रीवीरकलशसुगुरवः ? 'गीतार्थाः '-प्रसिद्धविषयाः, प्रसिद्धैश्वर्या वा, पुनः कथम्भूताः ? 'परमसंविग्नाः'-अत्यन्तं संवेगयुक्ताः, 'तेभ्यः'-पूर्वोक्तभ्यः फलसमानेभ्यः श्रीवीरकलशसुगुरुभ्यः, 'वयं''बीजामा भवामः'-बीजतुल्या व महे, 'तत्र'-तेषु बीजेषु, 'अहं सूरचन्द्रः'-सूरचन्द्रनामा अस्मि, 'द्वितीयीकः गुरुभ्राता'एकगुरुशिष्यः, 'गणिपद्मवल्लभपटुः'-चतुरः पद्मवल्लभनामा गणिः, अस्ति, 'तु'-पुनः, 'अस्मत् '-अस्माकं सकाशात् , 'हीरसारप्रमुखा'-हीरसारादयः, ' अङ्कुरकरणयः'-अङ्कुरसमाः, 'सन्ति'-भवन्ति, 'तेऽपि '-अङ्कुरसमाना हीरसारप्रमुखा अपि, ' प्रमापटुभिः'-ज्ञानचतुरैः, 'सुशिष्यरूपैः'-सुन्दरान्तेवासिस्वरूपैः, 'फलौधैः '-फलसमुहै', 'फलन्तु'- 18 फलयुक्ता भवन्तु ॥ १५-२० ॥ _मूलम्-तेनासुको वाचकसूरचन्द्र-नाम्ना रसज्ञाफलमित्थमिच्छता। ग्रन्थोऽभितोऽग्रन्थि मया स्वकीया-न्यदीयचेतःस्थिरतोपसम्पदे ॥२१॥ टीका-ग्रन्थरचनविषयनिदर्शनपूर्वकं तत्फलाभिकामनमाह-तेनेत्यादि तेन '-पूर्वोक्तेन, निदर्शितस्ववंशावलिकेनेतिभावः, वाचकसरचन्द्रनामधेयेन वाचकेन मया, ' असुकः'-असो, 'ग्रन्थः '-सन्दर्भः, ' अभितोऽग्रन्थि '-सम्यक्तया PI निर्मितः, कथम्भूतेन मया ? ' इत्थम् '-उक्तप्रकारेण, ' रसज्ञाफलमिच्छता'-जिह्वायाः फलमभिलषता, कस्मै प्रयोजना- ER ॥ १५५ ॥

Loading...

Page Navigation
1 ... 324 325 326 327 328