Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
मसत्त्या
25545445CCCC
येत्याह-स्वकीयेत्यादि 'स्वकीयान् यदीयचेतःस्थिरतोपसम्पदे -स्वसम्बन्धिमनःस्थिरत्वरूपावान्तरसम्पत्तये ॥२१॥ मूलम्-एवं यथाशेमुषि जैनतत्त्व-सारो मयाऽस्मारि मनःप्रसत्त्य ।
उत्सूत्रमासूत्रितमत्र किञ्चिद्, यत्तद्विशोध्यं सुविशुद्धधीभिः ।। २२॥ टीका-सुधीसम्बन्धेस्वावनतत्वं दर्शयति एवमित्यादिना ' एवम्'-अनया रीत्या, मया ' यथाशेमुषि'-स्वबुद्ध्यनुसारेण, 'जैनतत्वसार'-जैनतत्वसारनामको ग्रन्धः, 'मनःप्रसत्यै'-मनसः प्रसन्नताय, स्वकीयान्यमनःप्रसादायेतिभावः, 'अस्मारि'-स्मृतः, कृत इतिभावः, 'अत्र'-अस्मिन् ग्रन्थे, यत् 'किश्चित् '-किमपि, “उत्सूत्रम्'-सूत्रविरुद्धम , 'आसत्रितम् '-रचितम् स्यात् , ' तत्सुबिशुद्धधीभिः '-अतिनिर्मलवुद्धिभिर्जनैः, 'विशोध्यम्'-शोधनीयम् ॥ २२ ॥ मूलम्-वर्षे नन्दतुरङ्गचन्दिरकलामानेऽश्वयुपूर्णिमा,
ज्ञे योगे विजयेऽहमेतममलं पूर्ण व्यधामादरात् ।
ग्रन्थं वाचकसूरचन्द्रविबुधः प्रश्नोत्तरालङ्कृतम् ,
__ साहाय्याद्रपद्मवल्लभगणेरहत्प्रसादश्रियै ॥ २३ ॥ टीका-ग्रन्थनिर्माणवर्षादिकथनपूर्वकं फलप्राप्तिं निगमयति-वर्ष इत्यादिना 'नन्दतुरङ्गचन्दिरकलामाने वर्षे'नन्दा नव, तुरङ्गा सप्त, चन्दिरकलाश्चन्द्रकलाः ताश्च षोडश, ताभिर्मानं परिमाणं यस्य स तथा तस्मिन्वर्षे, अङ्गानां वामतो गतित्वादेकोनासीत्युत्तरषोडशतमितेऽन्दे (१६७९) इति वेयम् , ' अश्वयुक्पूर्णिमा शे' अश्वयुक्-अश्विनी तया
Loading... Page Navigation 1 ... 325 326 327 328