Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 320
________________ तत्वसार टीकायाम् विंशतितमोऽधिकार ॥ १५२॥ मननशीला अपि, 'मुह्यन्ति'-मोहं प्राप्नुवन्ति, मुग्धा भवन्तीतिभावः, 'केवलिनं विना'-केवलज्ञानिनमतिरिच्य, 'सकलश्रुतेक्षी'-सर्वश्रुतदर्शकः, 'व्यक्तोऽपि '-प्रकटीभूतोऽपि, 'अमुं'-पूर्वोक्तम् विचारम्, 'वक्तुं न शक्तः'-कथयितुम् न समर्थः स्यात् ॥ ६॥ . मूलम्-अतस्तु वैयात्यमिदं मदीय-मुदीक्ष्य दक्षैर्न हसो विधेयः । बालोऽपि पृष्टो निगदेप्रमाणं, वाधैर्भुजाभ्याम् स्वधिया न किं वा ॥ ७ ॥ ___टीका-एवं तर्हि स्वागम्ये विचारे कथं प्रवृत्तिः कृतेति शङ्कां परिहर्तुमाह-अतस्त्वित्यादि — अतः 'अस्मात्कारणात् , 'तु' विनिश्चये, 'मदीयं '-मत्सम्बन्धि, ' इदम् '-एतत् , 'वैयात्यम् '-धार्ध्वम् , निर्लज्जत्व- | मितिभावः, 'उदीक्ष्य '-दृष्वा, 'दक्षैः '-चतुरैर्जनैः, 'हसो न विधेयः'-उपहासो न कर्त्तव्यः, कुत इत्याहबालोऽपीत्यादि यतः ‘पृष्टः'-पृच्छां नीतः सन् , ' बालोऽपि '-शिशुरपि, वेति निश्चयेन, 'स्वधिया'-निजबुद्धथा, 'भुजाभ्याम्'-बाहुभ्याम् , बाहू वितत्येतिभावः, 'वार्धेः प्रमाणं'-समुद्रस्य विस्तारम् , किं 'न निगदेत् '-न कथयति, अपि तु कथयत्येवेत्यर्थः ॥७॥ मूलम-यवेदमेवाल्पधियां समस्तु, शास्त्रं यतः शासनमस्त्यथास्मात् । यदुक्तिप्रत्युक्तिनियुक्तियुक्तं, तद्वाभियुक्ताः प्रणयन्ति शास्त्रम् ॥८॥ टीका-अथवा ममोक्तविचारनिर्बन्धोऽपि केषाश्चिच्छास्त्रं भवितुम् शक्नोतीत्याह-यद्वेत्यादिना 'यद्वा '-अथवा, K ॥१५२॥

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328