Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
'सर्वत्र'-सर्व विषयेषु, 'ममत्वमुक्तः'-ममत्वेन रहितो भवति, सारांशमाह-घनमित्यादिना 'ही' शब्दो विनिश्चये,
चरणपूत्तौं वा, 'घनं किमिति'-अत्र विषये बहुनोक्तेन किं प्रयोजनमस्तीत्यर्थः, 'सः'-पूर्वोक्तः, 'एषः'-प्रसिद्धो योगी, | सोऽविलोपे इत्यादिना चरणपूत्तौं, लोपेऽपि सन्धिः, ‘मनःशरीरसुखासुखज्ञानविमर्शशून्यः'-मानसेन देहेन सौख्येन | दुःखेन ज्ञानेन विचारेण च रहितो भवति ॥ ३३ ॥ मूलम्-न पुण्यपापे भवतोऽस्य मुक्तितो, मम क्रियेयं मम चैष कालः ।
सङ्गी ममाऽयं सुकृतं ममेद-मित्याद्यभिवानमनसो विनिर्जयात् ॥ ३४ ॥ टीका-मुक्तदशायाम् किम् भवतीत्याह-न पुण्यपाप इत्यादिना 'मुक्तितः'-मुक्तिवशात् , हेतौ पञ्चमी, 'अस्य - पूर्वोक्तस्य योगिनः, 'पुण्यपापे'-धर्माधौं, 'न भवतः '-न जायेते, तथा ' मनसो विनिर्जयात् '-मानसस्य विजयेन, 'इयं'-विवक्षिता, 'मम क्रिया'-मत्सम्बन्धिकृत्यम् , अस्ति 'च'-पुनः, 'एषः'-विवक्षितः, 'मम कालः'-मत्सम्बन्धी समयोऽस्ति, 'अयं '-विवक्षितः, 'मम सङ्गी'-मत्सम्बन्धी सहायोऽस्ति, तथा 'इदं '-विवक्षितम्, 'मम सुकृतंमत्सम्बन्धि पुण्यमस्ति ' इत्याद्यमिद्वान् '-इत्यादि भेदैः रहितो भवति ॥ ३४ ॥ मूलम्-स तावतेहास्ति शरीरधारी, सूक्ष्मक्रियातोऽपि न निष्क्रियो यत् ।
यावद्यदा सूक्ष्मक्रियाऽपि नष्टा, मुक्तस्तदा सिद्ध्यति सिद्धताप्तेः ॥ ३५ ॥ १. सहायः । २. प्राप्तेः ।
Loading... Page Navigation 1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328