Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 316
________________ जैन तत्वसार टीकायाम् ॥ १५० ॥ टीका - अत्रैव पुष्टिमाह-क्रिये इत्यादिना 'इमे - पूर्वोक्ते, ' द्वे क्रिये 'उमे क्रिये, तदानीम् ' युगपत् समास्ताम् 'एकस्मिन्नेव समये समभवताम् अत्र हेतुमाह-ये इत्यादिना यतः ' ये ज्ञेयदृश्ये ' - ज्ञानयोग्य-दर्शनयोग्ये वस्तुनी स्तः, 'ते' - ज्ञेयदृश्ये, ' इह ' - अस्मिन् भवे, मनुष्यभव इत्यर्थः, ' अभूताम् ' - अवर्त्तेताम्, फलितमाह - तत इत्यादिना ' ततः 'तस्मात् कारणात्, 'किले 'ति निश्वयेन, 'नृजातौ ' - मनुष्यभवे, 'सक्रियत्वमभूत् '- क्रियायुक्तत्वमासीत्, ' तु 'परन्तु, 'खल्वि 'ति निश्वयेन, 'सिद्धौ ' - सिद्ध्यवस्थायां, 'निष्क्रियत्वं - क्रियारहितत्वं भवति ॥ ३८ ॥ मूलम् - एवं तु निष्क्रियता प्रसिद्धा, सिद्धेषु सिद्धाऽस्त्यवधारणेन । सर्वस्य चैतस्य मनोनिरोधो, हेतुस्ततोऽत्रैव रमध्वमध्वनि ॥ ३९ ॥ टीका - फलितकथनपूर्वकमुक्तविषयं निगमयति- एवमित्यादिना 'तु' शब्दश्वरणपूर्ती, 'एवम् ' - अनया रीत्या, ' सिद्धेषु ' - सिद्धिं प्राप्तेषु जीवेषु, ' प्रसिद्धा ' - प्रख्याता, 'निष्क्रियता '- क्रियारहितता, ' अवधारणेन'- निश्वयेन, निश्चयपूर्वकमिति यावत्, 'सिद्धाऽस्ति ' - सिद्धिंगता भवति, 'च' पुन, ' एतस्य ' - पूर्वोक्तस्य, 'सर्वस्य ' -सकलविषयस्य, 'हेतुः ' - कारणम्, 'मनोनिरोधः ' - मानसस्य निग्रहः, अस्ति, 'तत् '-- तस्मात् कारणात्, ' अत्रैव अध्वनि ' - अस्मिन्नेव मार्गे, निदर्शिते पथीतिभावः, यूयम् 'रमध्वम् ' - रमणं कुरुध्वम् ॥ ३९ ॥ । आस्तिकनास्तिकानां द्वयेषामपि परम्परया मनोनिर्विषयतापादनेन च मुक्तिप्राप्तनकारणोक्तिलेशो विंशतितमोऽधिकारः विंशति. तमोऽधिकारः ॥ १५० ॥

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328